सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ कादम्बरी । - यांबभूव । कृतप्रणामां च तां सादरम् 'एह्येति' इत्यभिधायात्मनः समीपे सुकुतूहलपरिजनदृश्य- मानां पृष्ठतः समुपावेशयत् । दर्शना देवोपारूढप्रीत्यतिशया च मुहुर्मुहुरेनां सोपग्रहं कर किसलयेन पस्पर्श | चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचारस्तदवस्थां चित्ररथतनयामालोक्या- चिन्तयत् 'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु | पृच्छामि तावदेनाम्' इति निपुणालापेनातिप्रकाशमब्रवीत – 'देवि, जानामि कामरतिं निमित्तीकृत्य प्रवृत्तोऽयम- विचलसंतापतन्त्रो व्याधिः सुतनु, सत्यं न तथा त्वामेष व्यथयति यथास्मान् | इच्छामि देहँदानेनापि स्वस्थामत्रभवतीं कर्तुम् | उत्कम्पिनीमनुकम्पमानस्य कुसुमेषुपीडया पतिताम- वेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते मुजलते गोढसंतापतया च दृष्ट्या वसि स्थलकमलिनीमिव रक्ततामरसाम् । 'दुःखितायां च त्वयि परिजनोऽपिचानवरतकृताश्रुबि- न्दुपातेन वर्तते । मुक्ताभरणतां गृहाण | स्वयं वराणि प्रसाधनानि | कुसुमशिलीमुखान्त- हिता शोभते यथा लता' इति । अथ कादम्बरी बालतया स्वभावमुग्धापि कंदर्पेणोपदिष्टयेव चिन्तयांबभूवेति चिन्तितवती । इतिशब्दद्योत्यमाह - अहो इति । प्रजापतेर्विधातुरहो मानुषीषु पक्षपातो- इङ्गीकारः । कृतः प्रणामो नमस्कारो ययैवंभूतां च सादरं सबहुमानं एहि एहि इत्यभिधायात्मनः समीपे स्वकी- यनिकटे सह कुतूहलेन वर्तमानो यः परिजनः परिवारजनस्तेन दृश्यमानां विलोक्यमानांपृष्ठतः समुपावेशय- निवेशितवती । अथ दर्शना देव विलोकनादेवोपारूढः प्रादुर्भूतः प्रीतेरतिशय आधिक्यं यस्यां सा मुहुर्मुहुर्वारं- वारमेनां पत्रलेखां सोपग्रहं सानुकूलनं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पर्श चकार । चन्द्रापीडस्तु सपदि शीघ्रं कृतो विहितः सकल: समग्र आगमनस्यागमने वोचितो योग्य उपचारो विनयो येन स तदवस्थां विर- हविक्लवां चित्ररथतनयां कादम्बरीमालोक्य वीक्ष्याचिन्तयदध्यायत् । हीति निश्चितम् । मे मम हृदयं चेतो- ऽतिदुर्विदग्धमतिजडं यदद्यापि न श्रद्दधाति न निश्चयं करोति । इयमीदृश्यवस्था किं कामातू, अन्यप्रिय निमित्ता- द्वेति प्रकारान्तरस्यासंभवात् । कामनिमित्तकत्वे च गतेऽपि विपरीतसंभावनेति दुर्विदग्धपदव्यङ्ग्यम्, अत एव निश्चयानुरोधेनाह — भवत्विति । कामनिमित्तक एवास्तु, परं तावदादावेनां पृच्छामीति कृत्वा निपुणालापेन नातिप्रकाश नातिस्पष्टमब्रवीदवोचत् । हे देवि कादम्बरि, अहं जानामि कामनिर्वचनीय स्वरूपामरतिं निमित्ती- कृत्यायमविचलो यः संतापस्तस्य तन्त्र आधीन एवंविधोऽपि व्याधिः प्रवृत्तः । हे सुतनु हे कादम्बरि | सत्य- मिदं नौपचारिकं वचः त्वामेष व्याधिर्न तथा व्यथयति पीडयति, यथास्मान् | देहदानेनाप्यत्रभवतीं पूज्यां स्वस्थां सज्जां कर्तुमिच्छाम्यभिषा मि उत्कम्पिनीं त्वां प्रत्यनुकम्पमानस्यानुकम्पां कुर्वाणस्य कुसुमेषुः कंदर्पस्त- स्य पीडया पतितां स्रस्तामवेक्षमाणस्य पश्यतो मे मम हृदयं चेतः पततीव | कादम्बर्या विरहकार्यं प्रकटयन्ना- ह–अनङ्गदे इति । गाढसंतापतया तनुभूते ते भुजलते अनङ्गदे बाहुभूषणवर्जिते दृष्ट्या कृत्वा रक्तता- मरसां स्थलकमलिनीमिव त्वं वहसि । अत्र कृशभुजलतयोर्मृणालसाम्यम्, नेत्रयो रक्ततामरससाम्यमिति भावः। त्वयि दुःखितायां सत्यां परिजनोऽप्यनवरतं निरन्तरं कृतो योऽश्रुबिन्दुपातस्तेन वर्तते प्रवृत्तो भवती- लि at after