पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३८७ स्रस्तकेश कलापसं- चलितत्रिकताम्र- र्मधुकर कुलैरिवाच्छाद्यैमाना, संभ्रमच्युतोत्तरीयका हारकिरणानुरसि कर्तुमिच्छन्ती, मणिकु- ट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, यमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, त्रिवलीतैरङ्गितरोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्त:प्रविष्टललाटिकाचन्द- नरेंस मिश्रमिव चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, नन्दवारिबिन्दुवेणिकया चलितावतं- सधूलिधूसरं प्रियप्रतिमाप्रवेशलोभेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिका चन्दन भरेणेव किंचिदधोमुखी तत्क्षणमपाङ्गभागयुंजिततारकया तन्मुखलग्नयेव दीर्घया दृष्ट्याकृष्यमाणा कुसुमशयनादुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शित विनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने उपविष्टायां प्रतीहार्योपनीतां जांबून- दमयीमासन्दिकां रोचिष्णुरत्न प्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् | अथ केयूरकः ‘देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखाम दर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् 'अहो, मानुषीपु पक्षपातः प्रजापते : ' इति चिन्त- परिमलस्तेनोपनतैः प्राप्तैरत एव परवशैरा समन्तान्मुखरैर्वाचालैरेवंविधैर्मधुकरकुलैर्भ्रमर समूहैराच्छाद्यमा- नेव । संभ्रमेण सहसा च्युतमुत्तरीयकं प्रावरणं वस्त्रं यस्याः सैर्वभूता सती हारकिरणानुरसि कर्तुमिच्छन्ती वा- छन्ती । एतेन हारकिरणोत्तरीयांशुकयोरतिस्वच्छत्वसाम्याद्भेदो न ज्ञात इति भावः | मणिकुढिमे निहितेन स्थापितेन वामकरतलेन निजप्रतिमां प्रति हस्तावलम्बनं याचमानेव प्रार्थ्यमानेव । एतेन स्वतः स्वशरीरधारणे न क्षमेति प्रदर्शितम् । स्रस्तो यः केशकलापोऽलकसमूहस्तस्य संयमनं बन्धनं तेन श्रमितेन श्रमं प्राप्तेन गल- स्वेदसलिलेन क्षरद्धर्मवारिणा दक्षिणकरेण समभ्युक्ष्य | यस्य कस्यचिदर्पणं क्रियते तत्तु करेण प्रोक्षितस्यैवेत्यर्थः । आत्मानमर्पयन्त्यर्पणं कुर्वन्ती । चलितं यत्रिकं वंशाधस्तस्य ताम्रा स्वच्छा या त्रिवली तया तरङ्गिता रोमरा- जिस्तस्या भावरतत्ता तथा हेतुभूतयानमेन कंदर्पेण सर्वरसान्निष्पीड्यमानेव मद्यमानेव । एतेन चलितत्रिकस्य पीडनयन्त्रसाम्यता प्रदर्शिता । किं कुर्वती । चक्षुषा नेत्रेण शिशिरं शीतलमानन्दजलं क्षरन्ती स्रवन्ती । शि- शिरत्वे हेतुं प्रदर्शयन्नाह - अन्तरिति । अन्तः प्रविष्टो यो ललाटिकाचन्दनरसस्तेन मिश्रमिव संपृक्तमिव । पुनः किं कुर्वन्ती । आनन्दवारिणो विन्दवो विश्रुषास्तेषां वेणिकया प्रवाहेण । 'धारा वेणी रयश्च सः' इत्य- मरः । चलितः स्वस्थानाच्युतो योऽवतंसस्तस्य धूलि: परागस्तेन धूसरं मलिनं कपोलफलकं प्रियप्रतिमा प्रवेश- लोभेन प्राणप्रियप्रतिबिम्ब संक्रान्तितृष्णयेव प्रक्षालयन्ती धावनं कुर्वन्ती | ललाटिकाया यश्चन्दनभरस्तेनेव किं- चिदधोमुख्यवासुखी तत्क्षणमपाङ्गभागोऽक्षिबाह्यान्तः प्रदेशस्तत्र युञ्जिता प्रेरिता तारका कनीनिका ययैवंविधया तस्य चन्द्रापीडस्य मुखमाननं तत्र लग्नयेव दीर्घया दृष्ट्याकृष्यमाणाकर्पर्ण क्रियमाणा | अन्वयस्तु प्रागेवोक्तः । तदनन्तरं चन्द्रापीडस्तु समुपसृत्याप सर्पणं कृत्वा पूर्ववदेव महाश्वेताप्रणामपुरःसरं तां कादम्बरीं दर्शित विनयः