पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३८९ --- । प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थं मनसा जग्राह | मनोरथानां तु तावतीं भूमिम संभावयन्ती शालीनतां चावलम्बमाना तूष्णीमेवासीत् | केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमाननामोद मधुकरपटलान्धकारितं मुखं द्रष्टुमिव स्मितालोकमकरोत् । ततो मदलेखा प्रत्य- वादीत् – 'कुमौर, किं कथयामि | दारुणोऽयमकथनीयः खलु संतापः | अपि च कुमारभा- वोपेताया: किमिवास्या यन्न संतापाय | तथा हि । मृणालिन्याः शिशिर किसलयमपि हुता- शनायते । ज्योत्स्नाण्यातपायते । नेनु किसलयतालवृन्तवातैर्मनसि जायमानं किं न पश्यति खेदम् । धीरत्वमेव प्राणसंधारणहेतुरस्याः' इति कादम्बरी तु हृदयेन तमेव मदलेखालाप - मस्य प्रत्युत्तरीचकार । चन्द्रापीडोऽप्युभयथाघटमानार्थतया संदेहदोलारूढेनैव चेतसा महा- श्वेतया सह प्रीत्युपचयचतुराभिः कैथाभिर्महान्तं कालं स्थित्वा तथैव महता यत्नेन मोचयि - त्वात्मानं स्कन्धावारगमनाय कादम्बरीभवनान्निर्ययौ । निर्गतं च तुरङ्गममारुरुक्षन्तं पश्चा- दागत्य केयूरकोऽभिहितवान् - 'देव मदलेखा विज्ञापयति — 'देवी कादम्बरी खलु प्रथम- दर्शनजनितप्रीतिः पत्रलेखां निवर्त्य माना मिच्छति, पश्चाद्यास्यति' इति श्रुत्वा देवः प्रमाणम् ।' इत्याकर्ण्य चन्द्रापीड: 'फेयूरक, धन्या स्पृहणीया च पत्रलेखा यामेवमनुवघ्नाति दुर्लभो देवी M १ येव प्रज्ञया तमज्ञषं समग्रमव्यक्तव्याहारोऽस्फुटभाषितं तेन सूचितं ज्ञापितमुपभोगविषयकं रहःसंगमरूपं वार्थ मनसा जग्राह गृहीतवती । मनोरथानां त्वभिलाषाणां तु तावतीं भूमिं संगमरूपलक्षणामसंभावयन्त्यवितर्क- यन्ती शालीनतां दृष्टतां चावलम्बमाना । 'दृष्टे: शालीनशारदौ' इति कोशः | तूष्णीमेवासीत् । केव- लमुत्पादितोऽन्यव्यपदेशो मिषं ययैवंभूता तत्क्षणमाननस्यामोदस्तस्माद्यन्मधुकरपटलं तेनान्धकारितमन्धका- खदाचरितं मुखमाननं द्रष्टुमिव स्मितालोकं स्मितलक्षणमालोकं प्रकाशमकरोत् । स्मितेन दन्तज्योत्स्नाया बहिर्निर्गमेन प्रकाशसंभवात् । ततो मदलेखा प्रत्यवादीत् | कुमार, किं कथयामि किं ब्रवीमि । अयं दारु णस्तीव्रोऽकथनीयो वक्तुमशक्यः खलु निश्चयेन संतापः | अपि चेति युक्त्यन्तरे | कुमारभावोपेताया अस्याः किमिव यन्न संतापाय भवति । तदेव दर्शयति — तथा हीति । मृणालिन्याः कमलिन्याः शिशिरकिस- लयमपि हुताशनायते वह्निवदाचरति | ज्योत्स्नापि चन्द्रिकाप्यातपायते सूर्यालोकायते । नन्विति वितर्के । • किसलयानि पलवास्त एव तालवृन्तानि तेषां वातैः पवनैर्मनसि जायमानं खेदं भवान्कि न पश्यति । अतोऽस्याः कादम्बर्या धीरत्वमेव प्राणसंधारणे जीवितधारणे हेतुर्निमित्तमिति | कादम्बरी तु हृदयेन तमेव पूर्वोक्तमेव मदलेखालापं मदलेखाजल्पितमस्य चन्द्रापीडस्य प्रत्युत्तरीचकार । प्रतिवचः प्रादादित्यर्थः । एतत्कृतो मम विरहो मत्कृतश्चास्या इत्युभयथावटमानार्थया विरहतापः सोढुं शक्यो न वेति संदेहदो- लारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयो रसपुष्टिस्तत्र चतुराभिर्दक्षाभिः कथाभिर्वार्ताभिर्महान्तं कालं च स्थित्वावस्थानं कृत्वा तथैव पूर्वप्रकारेणैव महता यत्नेनात्मानं मोचयित्वा स्वस्