पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। 9 नतीम् आयतश्वास विधुतितरलितेन च संतापभयपलायमानेन देहप्रभावितानेनेवांशुकेन विमुच्यमानकुचकलशाम्, आपत्प्रचलचामरप्रतिबिम्बं च कुचकलशयुगलं प्रियान्तिकग- मनौत्सुक्यकृतपक्षमिव करतलेन निरुन्धन्तीम्, मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिका- मालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्दन- पङ्कप्रतियातनामामृशन्तीम्, स्तनसंक्रान्तेनात्ममुखेनापि कुतूहलिनेव परिवृत्य विलोक्यमा- नाम्, कर्णपूरपल्लवेनापि स्वप्रतिबिम्बशायिना सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकाम्, हारै- रपि मुक्तात्मभिर्मंदनपरवशैरिव प्रसारित करैरालिङ्ग्यमानाम्, मणिदर्पणमुरसि निहितं विनो- दितव्यमेतदिति जीवितैस्पर्शमयं शपथं शशिनमिव कारयन्तीम्, करिणीमिव संमुखागतप्रम- दवनगन्धवारणप्रसारितकराम्, प्रस्थितालिवान भीष्टदक्षिणवातमृगागमनाम्, मदनाभिषेकवे- १ - केतकी तस्याः कलिका कोरकः तां कर्णे कलयन्तीं कलनां कुर्वन्तीं धारयन्तीम् । आयतो विस्तीर्णो यः श्वासः श्वसितं तस्माद्या विधुतिः कम्पस्तेन तरलितेन कम्पितेन संतापभयात्पलायमानेन धावता । अतिशुभ्र- वसचिकणत्वसाम्यादाह - देहेति । देहप्रभावितानेनेव शरीरदीप्तिसमूहेनेवांशुकेन वस्त्रेण विमुच्यमानौ कु- चावेव कलशौ यस्याः सा ताम् । आपतत्प्रचलचामरयोः प्रतिबिम्बं यस्मिन्नेतादृशं कुचकलशयुगलं प्रियस्य वल्लभस्यान्तिकं समीपं तत्र गमने याने यदौत्सुक्यं रणरणकता तेन कृताः पक्षा येनैतादृशामिव करतलेन नि- रुन्धन्तीं निरोधं कुर्वन्तीम् । मुहुर्मुहुर्भुजलतया बाहुवलया तुषारशिला तस्याः शालभजिकां पाञ्चालिकामा- लिङ्गन्तीमाश्लेषं कुर्वन्तीम् । मुहुः कपोलफलकेन कर्पूरपुत्रिकां घनसारपाञ्चालिकामाश्लिष्यन्तीमालिङ्गन्तीम् । मुहु- चरणारविन्देनाङ्घ्रिकमलेन चन्दनपङ्कस्य मलयजकर्दमस्य प्रतियातनां प्रतिमाम् । 'प्रतिमा यातनाविधिः । छाया छन्दः कायो रूपं बिम्बं मानकृती अपि' इति कोशः । आमृशन्तीं परामर्श कुर्वन्तीम् | स्तनेति । स्तनयोः कु- चयोः संक्रान्तेन प्रतिबिम्बितेनात्ममुखेनापि स्वकीयवदनेनापि कुतूह लिनेव कौतुकिनेव परिवृत्य | उत्तानीकृत्ये- त्यर्थः । विलोक्यमानां वीक्ष्यमाणाम् । एतेन सौन्दर्यातिशयः सूचितः । एवं कर्णपूरपल्लवेनापि स्वप्रतिबिम्बरूपेण शायिना शयनकारिणा । एतेनायतत्वं सूचितम् | सोत्कण्ठेनेव सोत्कलिकेनेव चुम्ब्यमानं चुम्बनविषयीकि- यमाणं कपोलफलकं यस्याः सा ताम् । हारैरपि मुक्ताकलापैरपि मुक्तात्मभिर्मुक्तास्वरूपैर्मदनपरवशैरिवान- ङ्गायत्तैरिव प्रसारित करैर्विस्तारित पाणिभिरालिक्यमानामाश्लिष्यमानाम् । अत्र मुक्तात्मभिरालिङ्ग्यमानामिलनेन तस्या अभिनवं सौभाग्यं वर्णितम् | उरसि निहितं वक्षसि स्थापितं मणिदर्पणं रत्नादर्शम् । वर्तुलखतादृशद्युति- मत्त्वसाधर्म्यात् । जीवितस्य स्पर्शे दानं तन्मयं शशिनमिव चन्द्रमिव । 'स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्श के रुजि’ इति कोशः । इति शपथं कारयन्तीम् । इतिशब्दयोत्यमाह - विनोदेति । अद्य त्वया विनोदितव्यम् । अन्यस्तु शशी शोकप्रदः, त्वया तु विनोदितव्यमेतदिति भावः । अत एव जीवितस्पर्शमयमिति विशेषणम् । करिणीति । हस्तिनीमिव । उभयोः शब्देन साम्यं प्रदर्शयन्नाह - संमुखेति । संमुखागतो यः प्रम- 1 -


.