पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ कादम्बरी । च तस्यैकदेशे सखीकदम्यकपरिवृताम् अशेपसरित्परिवारामिय भगवतीं गङ्गां हिमवतो गृहाचलगताम्, कुल्याभ्रमिभ्रमितेन कर्पूररस स्रोतसा कृतपरिवेपाया मृणालदण्डमण्डपिका- यास्तले कुसुमशयनमधिशयानाम्, हाराङ्गदवलयरसनानूपुरैर्मृणालमयैर्निगडैरिव संयतामी- या मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलाञ्छनेन, वाष्पवारिवाहिनि चुम्बिता- मिव चक्षुषि, वरुणेन वर्धितनिःश्वासमरुति देष्टामिव मुखे, मातरिश्वना संतापप्रतप्तेष्वध्यां सितामिवाङ्गेष्वनङ्गेन, कंदर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, स्वेदिनि परिष्वक्ता मिष वपुषि जैलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमसमीपमित्रो- पगतैरङ्गै रुपजनित दौर्बल्याम्, आश्यानचन्दनपाण्डुरं च रोमाञ्चमनवरतहारस्पर्शलग्नं मुक्ता- फल किरणपुञ्ज मिवोद्वहन्तीं स्वेदसीकरिणीं च कपोलपालीम्, पक्षपवनेन वीजयद्भिरनुक- म्यमानामिवावतंसमधुकरैः, अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्ग निर्गतेनानुस्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्व चाक्षुणो निर्वाहप्रणालिकामिव कर्पूरकेतकीकलिकां कर्णे कलय- त्रिभुवनं त्रिविष्टपं तुषारमयं हिममयम् | अतिशीतलस्य शेषाधिवशात्किरणरूपतया सत्त्वेऽपि हाररूपतयागण- यदिव्यर्थः । एवंविधस्य तस्य हिमगृहस्य एकदेश एकस्मिन्प्रदेशे सखीकदम्वकेन वयस्यासमूहेन परिवृताम् । अ शेषसरित्परिवारां समग्रतटिनी परिच्छदां हिमवतः पर्वतात् गृहाचलगतां गृहशिलागतां भगवतीं गङ्गामिव जा. हृवीमिव विरहज नितपाण्डुरत्वसाम्यात्तदुपमानम् । अन्यासां च नद्युपमानम् | कुल्या सारणी तस्या भ्रमिभ्रमणं तया भ्रमितेन कर्पूररसस्रोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिधिर्यस्या एवंविधाया मृणालदण्ड- मण्ड पिकाया बिसदण्डमण्डपस्य तलेऽवो भागे कुसुमशयनं पुष्पशय्यामधिशयानां कृतखापाम् । हारेति । हारो मुक्ताप्रालम्वः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुराणि पादकटकानि, एतैर्मृणालमयीर्बिस मयैर्निग डैरिवान्दु कैरिवेर्ण्यया स्पर्धया मन्मथेन कंदर्पेण संयतां बद्धाम् | चन्दनेन धवले शुश्रीकृते ललाटेऽलिके शशलाञ्छनेन चन्द्रेण स्पृष्टामिवालिङ्गितामिव | शुभ्रुत्ववक्रत्वसाम्याचन्द्रोपमानम् | बाष्पवारि नेत्राम्बु तद्वाहिनि चक्षुषि नेत्रे वरुणेन प्रचेतसा चुम्बितामिव | जलच्युतिसाम्यावरुणेनेत्युक्तम् । वर्धितो वृद्धिं प्राप्तो निःश्वासमरु देतनवायुर्थंस्मिन्नेवंविधे मुखे । वायुबाहुल्यादाह — मातरिश्वना वायुना दष्टामिव भक्षितामिव | संतापः संज्वर- स्तेन प्रतप्तेषूष्णेष्चङ्गेष्वनङ्गेन कंदर्पेणाध्यासितामाश्रितामिव । कुत्रचित्‘पतङ्गेन' इति पाठः । तत्र पतङ्गः सूर्यस्ता- पजनकत्वात् । तदाश्रितामित्यर्थः । कंदर्पदाहदी पिते मदनदाघज्वलिते हृदये | दाहजनकत्वसाम्यादाह —हुत- भुजेति । हुतभुजा वहिना गृहीता मित्र स्वीकृतामिव । स्वेदिनि प्रस्वेदवति वपुषि जलेन नीरेण परिष्वक्ता- मिवाश्लिष्टामिव । एतेन स्वेदबाहुल्यं सूचितम् । दैवतैरप्यदृष्टैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं लोपमाप्य मानं सौभाग्यं यस्याः सा तामिव | हृदयेन चित्तेन सह सार्धं प्रियतमसमीपं प्राणप्रिय निकट मिवोपगतैरङ्गैः कृ. त्वोपजनितं विहितं दौर्बल्यं कृशत्वं यस्या एतादृशीम् | आश्यानमिति । आश्यानं शुष्कं यचन्दनं मलयजं