पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३८३ मिव सर्वचन्द्रकलानाम्, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणी- नाम्, निवास मिव सर्वमाघमासयामिनीनाम्, संकेतसदनमिव सर्वप्रावृपाम्, ग्रीष्मोष्मापनो- दोद्देशमिव सर्वनिम्नगानाम्, वडवानलसंतापापनोदननिवास मिव सर्वसागराणाम्, वैद्युत- दहनदाहप्रतीकारस्थानमिव सर्वजलधराणाम् इन्दुविरहदुःसहदिवसातिवाहनस्थानमिव कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव मैकरध्वजस्य, दिनकरकरैरपि सर्वतो जलयन्त्र- धारासहस्रसमुत्सारितैरतिशीतस्पर्श भयनिवृत्तैरिव परिहृतम्, अनिलैरपि कदम्बके सरोत्कर- वाहिभिः कण्टकितैरिवानुगतम्, कदलीवनैरपि पवनचलितद्लैर्जाड्यजनितवेपथुभिरिव परि- वारितम्, अलिभिरपि कुसुमामोदमदमुखरैराबद्धदन्तवीणैरिव वाचालितम्, लताभिरपि मेधुकरपटलजटिलाभिर्गृहीत नीलप्रावरणकाभिरिव विराजितमाससाद | क्रमेण च तत्रान्त - हिश्यातिबहलेन पिण्डहार्येणेवोपलिप्यमानोऽतिशीतलेन स्पर्शेनामन्यतात्मनो मनश्चन्द्रमयं कुमुद्मयानीन्द्रियाणि ज्योत्स्नामयान्यङ्गानि मृणालिकामयीं धियम् । अंगणयच्च हौरमयान- र्ककिरणांश्चन्दनमयमातपं कर्पूरमयं पवनमुदकमयं कालं तुपारमयं त्रिभुवनम् । एवंविधस्य 9 , जलक्रीडागृहमिव, सर्वाः समग्रा याश्चन्द्रकलास्तासां जन्मभूमिमिव, सर्व यच्चन्दनवनं गन्धसारकाननं तस्य देवतानामधिष्ठात्रीणां कुलगृहमिव पितृसद्ममिव; सर्वचन्द्रमणयश्चन्द्रकान्ताद्यास्तेषां प्रभवमिवोत्पत्तिमिव, सर्वे ये माघमासास्तपोमा सास्तेषां यामिनीनां रात्रीणां निवासमिव वसतिस्थलमिव, सर्वप्रावृषां समग्रतपाल्य- यानां संकेतसदनमिव, सर्वनिम्नगानां समस्ततटिनीनां ग्रीष्मस्योष्णागमस्य ऊष्मा तापस्तस्थापनोदो दूरीकरणं तस्योद्देशमिव प्रदेशमिव सर्वसागराणां समस्तसमुद्राणां वडवानलः वाडवस्तस्य यः संतापस्तस्यापनोदना दूरीकरणं तस्या निवासमिव वसतिमिव, सर्वजलधराणां समग्रमेघानां वैद्युतो यो दहन इरंमदस्तेन दाह- स्वस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव कुमुदिनीनां कैरविणीनामिन्दुविरहेण दुःसहमसह्यं दिवस- स्यातिवाहनमुलङ्घनं तस्य स्थानमिव, मकरध्वजस्य कंदर्पस्य हरस्येश्वरस्य यो हुताशनस्तृतीय नेत्रजो वह्निस्तस्य निर्वापणं निर्यातनं तस्य क्षेत्रमिव स्थानमिव, दिनकरस्य सूर्यस्य करैरपि सर्वतः समन्ताज्जलयन्त्रधारासह- स्स्राणि तैः समुत्सारितैर्दूरीकृतैरतिशयेन यः शीतः स्पर्शः तस्माद्यद्भयं तेन निवृत्तैरिव परिहृतं परित्यक्तम् । अनिलैरपि पवनैरपि कदम्बस्य कादम्वस्य यः केसरोत्करस्ताहिभिरत एव कण्टकितैरिव रोमाञ्चितैरिवानुगतं स हितम् | कदलीवनैरपि रम्भाकाननैरपि पवनेन चलितानि कम्पितानि दलानि येषां तैरत एव जाज्येन जनितो वेपथुः कम्पो येषामेतादृशैरिव परिवारितम् | अलिभिरपि भ्रमरैरपि कुसुमानामामोदः परिमलस्तज्जनितो मद- स्तेन मुखरैर्वाचालैरत एवाबद्धा दन्तवीणा यैरेवं विधैरिव वाचालितं मुखरितम् | लताभिरपि वल्लीभिरपि मधुक- राणां पटलं तेन जटिलाभिर्व्याप्ताभिगृहीतं स्वीकृतं नीलं प्रावरणं प्रच्छादनं याभिरेवंविधाभिरिव विराजितं शो- fr ferim ATSAA