पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३७१ , सविभ्रमेषु वैहत्सु लेताकुसुमपैरिमलेषु प्रभातमातरिश्वसु सुमन्दरलतागृहगहनानि च भियेव भजन्तीष्वरुणोदयोपलविनीषु तारकासु क्रमेण च सैमुद्गते चक्रवाकहृदयनिवासलग्नानुरागमि- व लोहितं मण्डलमुद्वहति सवितरि शिलातलादुत्थाय चन्द्रापीडः प्रक्षालितमुखकमलः कृतसं- ध्यानमस्कृतिर्गृहीतताम्बूल: 'केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा क्क वा तिष्ठति ' इत्यवोचत् । गतप्रतिनिवृत्तेन च तेन 'देव, मन्दरप्रासादस्याधस्तादङ्गणसौधवेदिकायां महा- श्वेतया सहावैतिष्ठते' इत्यावे दिते गन्धर्वराजतनयामालोकयितुमाजगाम | ददर्श च धवलर्भ- स्मललाटिकाभिरक्षमालापरिवर्तनप्रचलकरतलाभिः पाशुपतव्रतधारिणीभिर्धातुरागारुणाम्ब- राभिश्च परिव्राजिकाभि: परिणततालफलवल्कललोहितवस्त्राभिश्च रक्तपटव्रतवाहिनीभिः सितवसन निबिड निबद्धस्तनपरिकराभिश्च श्वेतपटव्यजनाभिर्जटाजिन वैरैकलाषाढधारिणीभि- वर्णिचिह्नाभिस्तापसीभिः साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगवतरुयम्बकस्याम्बिकाया कार्तिकेयस्य विश्र्वस्य कृष्णस्यार्य विलोकितेश्वरस्यर्हतो विरिश्चस्य पुण्या: स्तुतीरुपास्यमाना- मन्तःपुराभ्यर्हिताच सादरं नमस्कारैराभाषणैरभ्युत्थानैरासन्नवेत्रा सनदानैश्च गन्धर्वराजबा- , शरक्षेपो बाण प्रक्षेपस्ते खिन्नो रीणो योऽनङ्गः कंदर्पस्तस्य निःश्वासास्तेषां विभ्रमेषु लता वल्लयस्तासां कुसुमानां पुष्पाणां परिमलो येष्वंविधेषु प्रभातमातरिश्वसु प्रत्यूषसमीरेषु वहत्सु | अरुणोदयेन उपलवः उपद्रवो विद्यते यासामेवंविधासु तारकासु तारासु भियेव भीत्येव सुमन्दरो मेरुस्तस्य लता वीरुधस्ता इव गृहास्तेषां गहनान्य- राण्यानि च भजन्तीष्वाश्रयन्तीषु | क्रमेण परिपाट्या चक्रवाको रथाङ्गाह्वयस्तस्य हृदयं तेन सह निवासस्तत्र लग्नो- अनुरागो यस्यैवंविधमिव लोहितं मण्डलं बिम्बमुद्रहति धारयति सवितरि सूर्ये च समुद्रत उदिते सति शिला- तलादुत्थाय प्रक्षालितं मुखकमलं येन सः, कृता संध्याया नमस्कृतिर्येन सः, गृहीतं भक्षितं ताम्बूलं येन सः, हे केयूरक, विलोकय देवी कादम्बरी प्रवुद्धा न वा । क वा तिष्ठतीत्यवोचत् । गतप्रतिनिवृत्तेन च तेन केयूर- केण हे देव, मन्दरप्रासादस्याधस्तादङ्गणं तत्र यत्सौणं तस्य वेदिकायां महाश्वेतया सहावतिष्ठते । इत्यावेदिते कथिते सति गन्धर्वराजतनयामालोकयितुं वीक्षितुमाजगाम | तदनन्तरं महाश्वेतां कादम्बरींच ददर्शावलोक- यामास । अथ महाश्वेतां विशिनष्टि - साक्षादिति । साक्षान्मन्त्रदेवताभिरिव परित्राजिकाभिस्तापसीभिरुपा- स्यमानाम् । ता विशिनष्टि—धवलेति । धवलं शुभ्रं यद्भस्म भूतिस्तस्य ललाटिका यासां ताभिः। अक्षेति । अक्षमाला जपमालास्तासां परिवर्तनं तेन प्रचलानि कम्प्राणि करतलानि यासां ताभिः । पशुपतेरीश्वरस्येदं पाशुपतं यद्रतं नियमविशेषस्तद्धारयन्तीत्येवंशीलास्ताभिर्धातुरागेण गैरिकेणारुणान्यम्वराणि यासां ताभिः । परिणता ये तालफलास्तेषां वल्कलानि तान्येव लोहितानि रक्तानि वस्त्राणि यासां ताभिः । रक्तेति । रक्तो यः पटस्तस्य यद्रतं तद्वाहिनी भिस्त निर्वाहकारिणीभिः । अथ तापसीं विशिष्टि - सितेति | सितवसनेन श्वे- तवस्त्रेण निबिडं यथा स्यात्तथा निबद्धः स्तनपरिकरः कुचाभोगो यामिः । श्वेतपटस्य व्यजनानि तालवृन्तानि ।