पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० कादम्बरी । कथं देवी विलासवती, कथमार्य : शुकनासः कीदृशी चोजयिनी, कियत्यध्वनि साच, की हग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च शयन- सौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलंचकार । चन्द्रापीडोsपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगम्भीरतां च कादम्बर्या:, निष्कारणवत्स- लतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्केयूरकेण संवाह्यमानचरण: क्षणादिव क्षणदां क्षपितवान् । 9 अथ क्रमेण कादम्बरीदर्शनजांगरखिन्नः स्वप्नुमिव तालतमालतालीकदलीकन्दलिनीं प्रे- विरलकल्लोलानिलशीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरह विधुरस्य च कामि- नीजनस्य निःश्वसितैरिवोष्णैम्लनिमनीयत चन्द्रिका | चन्द्रापीडविलोकनारूढमदनेव कुमुद - दलोदरनीतनिशा पङ्कजेषु निपपात लक्ष्मी: । क्षणदापगमे च स्मृत्वा कामिनी कर्णोत्पल नहीं- रानुत्कण्ठितेष्विव क्षामतां ब्रजस्सु, पाण्डुतनुषु गृहप्रदीपेषु, अनवरतशरक्षेपखिन्नानङ्ग निःश्वा- राजा तारापीडः । देवी विलासवती कथम् । कथं आर्यः शुक्रनासः । कीदृशी चोज्जयिनी विशाळा | सा चो- ज्जयिनीतः कियत्यध्वनि मार्गे । कीदृग्भारतं वर्षं क्षेत्रम् | रमणीयो वा मनोहरो वा मर्त्यलोको मनुष्यलोकः । एवमिति । एवंविधाभिरेवंप्रकाराभिः कथाभिर्वार्ताभिः सुचिरं बहुकालं स्थित्वावस्थानं कृत्वोत्थाय काद- म्वरी केयूरकं चन्द्रापीडसमीपशायिनं परिजनं च समादिश्यादेशं दत्त्वा शयनयोग्यं यत्सौधशिखरं तदारुरोहा- रूढवती । तत्रेति । तत्र तस्मिन्सौधतले सितं शुभ्रं यद्दुकूलं दुगूलं तस्य वितानं चन्द्रोदयस्तस्य तलमधोभा- गस्तत्रास्तीर्ण स्थापितं शयनीयं शय्यामलंचकारालंकृतवती । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमा- नतां निगर्वतामभिरूपतां विचक्षणतामति गम्भीरतां च कादम्बर्याः, निष्कारणवत्सलतां च निर्हेतुकहितकारितां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य. अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां मनोहरतां च किंपुरुषदेशस्य मनसा भावयंश्चिन्तयन्केयूरकेण संवाह्यमानौ लाल्यमानौ चरणौ पादौ यस्यैवंभूतः क्षणादिव क्षणमात्रेण क्षणदां त्रियामां क्षपितवान्क्षयं नीतवान् । इदानीं रात्रिशेषं चन्द्रास्तं सूर्योदयं च वर्णयंश्चन्द्रापीडकर्तव्यतामाह - अथेति । क्षणदाक्षयानन्तरं काद- म्वर्या यत् दर्शनं अवलोकनं तेन जागरो जागरणं तेन खिन्नो रीणः स्वप्नुमिव शयनं कर्तुमिव तारापतिश्चन्द्रः । वेलेति । वेलाम्भसां वृद्धिस्तस्या वनराजि कान्तारश्रेणिमवततारावतीर्णवान् । अथ वनराजिं वर्णयन्नाह - तालेति । तालस्तलः, तमालस्तापिच्छः, ताली वृक्षविशेषः, कदली रम्भा, आसां कन्दलो विद्यते यस्यां सा ताम प्रविरलेत । अविरल : स्त का ये कलोल स्तरंगास्तेषामनिलो यस्तेन शीतल सुशीम अभ्य