पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । रतया प्रस्तुताहानेव, मुहुरनिलगलितांशुकसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया दत्ता- लिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्टकुसुमपूरिताञ्जलिसमाप्राणलीलया कृतनमस्कारेव, मुहुरुभ- यतर्जनीभ्रमितमुक्ताप्रालम्बतया निवेदित हृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलनविधुत- कैरतलतया कथितकुसुमायुधशरप्रहारवेदनेव, मुहुर्गलितरसना निर्गेडपतितचरणतया संयम्या- र्पितेव मन्मथेन, मुँहुश्चलितोरुविवृत्तशिथिलदुकूला, क्षितितलदोलायमानांशुकैकदेशाच्छा- दितकुचा, चकित परिवर्तनत्रुट्य त्रिवलीलता, सँमस्त चिकुरकलापसंकलनाकुलकरतला, कटाक्ष क्षेपधवलीकृत केर्णोत्पलं विलक्ष्यमाणस्मितसुधाधूलिधूसरितकपोलं साचीकृत्य वदनमनेकर - भङ्गिभङ्गुरं विलोकयन्ती, तावदवतस्ये यावदुपसंहतालोको लोहितो दिवसो बभूव । अथ हृदय स्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे सकललोकचक्रवालचक्रव- , १ तिस्तथा निरुद्धवदनेव | मुहुरिति । अंशुकपल्लवेन ताडितो यो निःश्वासामोदस्तत्र लुब्धा ये मधुकरा भ्रमरा- स्तैर्मुखरो वाचालस्तस्य भावस्तत्ता तथा प्रस्तुतं प्रारब्धमाह्वानं यया सैवंविधेन | मुहुरिति । अनिलेन गलि- तानि यान्यंशुकान्युत्तरीयाणि तेषां संभ्रमो विलासस्तेन द्विगुणीकृतं यद्भुजयुगलं तदेव प्रावृतमुत्तरीयं ययोः पयोधरयोस्तयोर्भावस्तत्ता तथा दत्तालिङ्गनसंज्ञा संकेतो यया सर्वविधेव | मुहुरिति । केशपाशादाकृष्टानि यानि कुसुमानि तेन पूरितो योऽञ्जलिस्तस्य समाप्राणलीलया कृत्वा कृतनमस्कारेव विहितप्रणामेव | पुनः करयोरलीकप्रदेशाभिमुखीकरणेन तदुत्प्रेक्षा - मुहुरिति । उभयतर्जनीभ्रमितो यो मुक्ताप्रालम्बो मुक्तालता तस्य भावस्तत्ता तथा निवेदितो ज्ञापितो हृदयस्योत्कलिका हृल्लेखः तस्यां उद्गमः प्रादुर्भावो यया सैवं विधेव । यथा हारो मया भ्राम्यते तथोत्कलिकया मञ्चित्तमिति भावः । मुहुरिति । उपहारस्योपचारस्य यानि कुसुमानि तेभ्यः स्खलनेन विधुतं कम्पितं यत्करतलं तस्य भावस्तत्ता तथा कथिता कुसुमा युधो मदनस्तस्य शरप्रहारवेदना पीडा यया सैर्वभूतेव । मुहुरिति । गलिता सस्ता या रसना कटिमेखला सै- व निगडोऽन्दुकस्तत्र पतितौ यौ चरणौ तयोर्भावस्तत्ता तया संयस्य बद्ध्वा मन्मथेनार्पितेव | मुहुरिति । चलिताभ्यामूरुभ्यां यथाकथंचिद्विवृतमपि शिथिलं दुकूलं यस्याः सा | क्षितितले दोलायमानोंऽशुकस्योत्तरीय स्यै- कदेशस्तेनाच्छादितौ कुचौ यया सा | चकितं ससंभ्रमं यत्परिवर्तनं तेन त्रुट्यन्ती त्रिवलीलता यस्याः सा । समस्ताः समग्रा ये चिखुराः कुन्तलास्तेषां कलापः समूहस्तस्य संकलनं स्वकीयस्थले स्थापनं तेनाकुलं व्याक्षिप्तं करतलं यस्याः सा । किं कुर्वती । वदनं मुखं साचीकृत्य वक्रीकृत्यानेके रसास्तेषां भङ्गी रचना विशेषस्तेन भ डुरं वकं यथा स्यात्तथा विलोकयन्ती | अथ वदनं विशेषयन्नाह – कटाक्षेति | कटाक्षाणां क्षेपस्तेन धवली- कृतं कर्णोत्पलं यस्मिन् । विलक्ष्यमाणं यत्स्मितं तदेव सुधा तस्या धूलिस्तया धूसरितौ कपोलो यस्मिन् । तावदवतस्थे यावदुपसंहत एकीभूत आलोको यस्मिन्नेवंविधो लोहितो रक्तो दिवसो बभूव । एतेन संध्यासमयो जात इति ज्ञापितम् । अथ प्रदोपसमयं वर्णयन्नाह - अथेति । जातायामदर्शनक्षमायां वेलायां कादम्बरी सौधशिखरातकीडापर्व-