पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | ३६५ सापि कार्य : कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः' इत्युक्त्वा च ताराचऋमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध | चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् –'मदलेखे, किमु - च्यते । निपुणासि । जानासि प्रायितुम् | उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमात्मनः, के वा वयं ग्रहणाग्रहणस्य वागता खल्वियमस्तं कथा | सौज- न्यशालिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्ट मिष्टेष्वनिष्ठेषु वा व्यापारेषु विनियुज्य - ताम् । अतिदक्षिणाया: खलु देव्याः कादम्वर्या निर्दाक्षिण्या गुणा न कंचिन्न दासीकुर्वन्ति' इत्युक्त्वा च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा विसर्जयांबभूव मदलेखाम् । अनतिदूरं गतायां च तस्यां क्रीडापर्वतगतर्मुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुं समुत्सारित वेत्रछत्रचामरचिह्ना निषिद्धाशेपैपैरिजना तमालिकाद्वितीया चित्ररथसुता पुनरपि तदेव सौधशिखर मारुरोह | तत्रस्था च पुनस्तथैव विविधविलास तरैङ्गि- तैर्विकारिविलो कितै जहारास्य मनः । तथाहि । मुर्मुहुनितम्ब चिम्यन्यस्तवामहस्तपलवा प्रांतां- शुकानुसार प्रसारितदक्षिणकरा निश्चलतारका लिखितेव, मुहुजृम्भिकारम्भदत्तोत्तानकरतल- तया तेंद्रोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुकपल्लवताडित निःश्वासामोदलुब्धमधुकर मुख- त्वया कादम्वर्या प्रथम प्रणयप्रसरभङ्गो मनसापि न कार्यो न विधेयः | कायवाग्भ्यां तु सर्वथा निषेध एव सूचितः । इत्युक्त्वेत्यभिधाय चामीकराचलस्य मेरोस्तटे ताराचक्रमिव नक्षत्रसमूहमिव तं हारं तस्य वक्षःस्थले बबन्ध । चन्द्रापीडस्तु विस्मयमानो विस्मयं कुर्वाणः प्रत्यवादीत्प्रत्यवोचत् । हे मदलेखे, त्वया किमुच्यते । त्वं निपुणासि पण्डितासि । अत एव ग्राहयितुं स्वीकारयितुं जानासि | उत्तरस्य प्रतिवचसोऽवकाशं प्रवेशयोग्यतामपहरन्या दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतम् । अयीति कोमलामन्त्रणे । हे मुग्धे, आत्मनो भवद- पेक्षया के वयम् । युष्माकं देवयो नित्वादिति भावः । अथ च के वा वयं ग्रहणाग्रहणस्य वागता | खलु निश्चि तम् । इयमस्तं कथा | सौजन्यशालिनीभिः सुजनताशोभिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिटेष्वनि- टेषु वा व्यापारेषु विनियुज्यतां प्रेर्यताम् । खलु निश्चितम् । अतिदक्षिणाया अत्युदारायाः । 'दक्षिणे सरलोदारौ' इति कोशः | कादम्बर्या निर्दाक्षिण्या सर्वत्र भ्रमणशीला गुणा: कंचित्पुरुषं न दासीकुर्वन्ति । अपि तु सर्वानेव | इत्युक्त्वा चेत्यभिधाय च कादम्बरीसंवद्धाभिरेव कथाभिः सुचिरं स्थित्वा तां मदलेखां वि. सर्जयांबभूव गृहे गमनायानुज्ञापितवान् । तदनन्तरं तस्यां मदलेखायामनतिदूरं गतायां नातिदूरं प्राप्तायां चित्र- रथसुता कादस्वरी पुनरपि द्वितीयवारमपि तदेव सौंबशिखरमाहरोहारूढा । अत्र सौधशिखरं विशेषयना - क्रीडेति । क्रीडार्थं यः पर्वतः शैलस्तत्र गतम् | कमिव | उदयगिरिरुदयाचलस्तत्र गतमिव चन्द्रमसम् । चन्दनं मलयजम्, दुकूलं क्षौमम्, हारः शेषाभिधानः, एतैर्धवलं शुभ्रं चन्द्रापीडं द्रष्टुं वीक्षितुं समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामरचिह्नानि यथा सा | निषिद्धो वर्जितोऽशेषः समग्रः परिजनः परिच्छदो यया सा | तमा- लिका एव द्वितीया यस्याः सा च । तत्रस्था च सौधशिखरगताच पुनस्तथैव पूर्वोक्तरीत्यैव विविधा अनेकप्रकारा