पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ कादम्बरी । । यत्तु सत्यममुना व्यतिकरेण कृतापराधमिव त्वय्यात्मानमवगच्छति कादम्बरी | तदयममृत- मथनमुहूतानां सर्वरनानामेकैशेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भ- सांपत्या गृहमुपागताय प्रचेतसे दत्तः । पाशभृतापि गन्धर्वराजाय | गन्धर्वराजेनापि काद- म्वर्यै तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या नभःस्थलमेवोचितं सुधास्तो धाम्नो न धरेत्यवधार्यानुप्रेषितः । यद्यपि गुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः केशहेतु- मितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्या: सहजमिति बहुमानमा विष्कुर्वता भगवता शाईपाणिना नँ च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणल वेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हंतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेपां प्रीतिप्रसरस्य । नियतं च भवता लग्नप्रणया महाश्वेतोपालम्भसहस्त्रैः खेदायित्वा खात्मानमुत्स्रक्ष्यति । अतएव महाश्वेता तैरैलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव । न खलु महाभागेन मन- लजा त्रपा स्यात्तादृशी याचमानानां नीचानां न च स्यात् । यचिति । तु पुनरर्थे । यत्पूर्वोक्तं तत्सत्यम् । ततः किमित्यत आह – अमुनेति । अमुना व्यतिकरेण त्वदागमनसंवन्धेन त्वयि कृतापरावं विहितागसमि- यात्मानं कादस्वर्ग्रवगच्छति जानाति । तदयममृतमथनात्समुद्भूतानां प्रकटितानां सर्वरत्नानामे कशेषोऽवशि ष्टोऽतः शेषनामायं हारोऽमुनैव हेतुनैकशेपत्वेनाम्भसांपत्या भगवता समुद्रेण बहुमतो गृहमुपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तोऽर्पितः । पाशभृतापि वरुणेनापि गन्धर्वराजाय दत्तः । गन्धर्वराजेनापि कादम्बर्ये दत्तः । तयाप्यस्याभरणस्य त्वद्वपुस्त्वदीयं शरीरमनुरूपं योग्य मिति विभावयन्त्या मनसि विभावनां कुर्वन्त्या | एतस्मि नर्थे दृष्टान्तं प्रदर्शयन्नाह –नभ इति । सुधासुतश्चन्द्रस्य धाम्नस्तेजसो नभस्थलमेवोचितं योग्यं न धरा पृथ्वी- त्यवधार्य निश्चित्यानुप्रेषितोऽनुप्रहितः । यद्यपीति । यद्यपि भवादृशा भवत्सदृशाः पुरुषा गुणाः शौर्यादयस्तेषां गणाः समुदायास्त एवाभरणानि तैर्भूषिता शोभिताङ्गयष्टिर्येषां ते तथा क्लेश हेतुः परिश्रमकारणमितरजनाः प्रा- कृतजनास्तैर्बहुमतमादारपूर्वकं स्वीकृतमाभरणभारं विभूषणवी मषु हस्तपादादिषु नारोपयन्ति न स्थाप- यन्ति । तथापीति । यद्यप्येवमस्ति तथापि कादम्बरीप्रीतिरत्र हारधारणे कारणं नियामकम् | प्रीयान्यै- रपि तथा कृतमित्याह - किं न कृतमिति । लक्ष्म्याः श्रियः सहजं सार्धं समुत्पन्न मिति कृत्वा बहुमानं सत्कारमाविष्कुर्वता प्रकटीकुर्वता भगवता शार्ङ्गमाणिना कौस्तुभाभिधानं शिलाशकलमुरसि किं न कृतं किंन विहितम् । न च नारायणस्तथा करोतु नाम | अहं तु तादृशो न भवामीत्यत आह - न चेति । नारायणः कृष्णोऽत्रभवन्तं त्वां न चातिरिच्यते । नाविको भवति । तथा च खानुरक्तप्रीति संरक्षणस्वभावसाम्येन त्वमपि स एवेत्यर्थः । न च हारोऽपि कौस्तुभापेक्षया न्यून इलाह - नापीति | कौस्तुभमणिरणुनापि गुणलवेन शेषं शेषनामानं हारं नाप्यतिशेतेऽतिशयितो न भवति । एवं लक्ष्मीसादृश्यं का स्वर्यामानयति न चेति । ।