पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | र्हति, या प्रथमदर्शन एव विश्रम्भमुपजनयति । इतरथा हि त्वद्विघे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथा हि | संभाषणमप्यधःकरणमिवापतति । आद्- रोऽपि प्रभुताभिमानमिवानुमापयति । स्तुतिरप्यात्मोत्सेकमिव सूचयति । उपचारोऽपि चप- लतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति | विज्ञापनापि प्रागल्भ्यमिव जो- यते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च स्वयं गृहीतह- दयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते । प्रथमकृतागमनमहोपकारस्य का ते प्रत्यु- पक्रिया | दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदे- । शेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्खता सज्जन विभवानाम् | आस्तां तावद्विभवः, भवादृशस्य दास्यमध्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानां यादृशी ददतां लज्जा । । g ३६३ पलम्भमनुभवमर्हति । साक्षात्कारयोग्या भवति । या प्रथमदर्शन एवं प्रथमावलोकन एव विश्रम्भं विश्वासमुप- जनयति । अतस्त्वद्विधे त्वत्सदृशे पुरुषे सकलभुवने प्रथितः प्रख्यातो महिमा माहात्म्यं यस्मिन्नेवं प्रयुज्यमानं कथ्यमानं सर्वमनुचितमिवायोग्यमिवाभाति । तदेव दर्शयति — तथा हीति | संभाषणमपि जल्पनमप्यधःक- रणमिवापतति । अनुचितेन सर्वोचितस्य संभाषणमनुचितमेव करोतीति न्यायादिति भावः | आदर इति । आदरोऽपि बहुमानोऽपि प्रभुताया ऐश्वर्यस्याभिमानमिवानुमापयतिज्ञापयति । स्तुतिरपि नुतिरप्यात्मन उत्सेक उत्कर्षस्तमिव सूचयति । उपचारोऽप्यभ्युत्थानादिरूपोऽपि चपलतामिव प्रकाशयति प्रकटीकरोति । प्रीतिरपि स्नेहोऽप्यनात्मज्ञतां स्वस्वरूपानभिज्ञतां ज्ञापयति । विज्ञापनापि विज्ञप्तिरपि प्रागल्भ्यमिव पाण्डित्यमिव जायते । सेवापि सपर्यापि चापलमिव दृश्यते । दानमपि परिभव इव पराभव इव भवति । प्रथितमहिमवत्त्वादिति भावः ॥ अपि चेति युक्त्यन्तरे | स्वयं गृहीतं हृदयं येनैवंविधाय किं दीयते । अथ च जीवितेश्वराय किं प्रतिपाद्यते किं कथ्यते । अयं भावः -- हृदयाधीनं जीवितं हृदयं चेद्गृहीतं तदा जीवितेश्वर एव जातः । एवं सति तस्मै जीविताभिधानं किं वस्तु नेयम् । सर्वेषां वस्तूनां जीवितार्थत्वात् । एतदपरं किं प्रतिपाद्यम् । प्रतिपाद्यानां जीवि- तावधिवात् । प्रथमं कृतं यदागमनं तदेव महानुपकारो यस्यैवं विधस्य ते भवतः का प्रत्युपक्रिया | न कापीत्यर्थः। दर्शनेन दत्तं जी वितफलं येनैवंविधस्य ते तव सफलमागमनं केन क्रियते । अयं भावः -- सर्वापेक्षयोत्कृष्टं जीवितं फलं त्वथैव दत्तम्। इतः परं त्वत्सदृशमस्माकं किमपि नास्ति, येन त्वदागमनसाफल्यं क्रियते | कादम्वर्यनेन व्यपदेशेन हारानयनमिषेण प्रणयिता नेहवत्ता त्वयि दर्शयति । न विभवमैश्वर्यम् | तवैतादृशं वस्तु नारित यादृशं मम वर्तत इत्येवम् | नन्वत्युत्तममुक्ताकलापस्य स्वविभवत्वप्रदर्शने कोऽयमस्वरस इत्यत आह - उप- प्रतीति । हीति निश्चितम् । सज्जनविभवानां परस्वता स्वीयपरकीय भावोऽप्रतिपाद्या वर्तते । सतां ।