३६२ कादम्बरी । लाभरणमिव मदनद्विपस्य शेरच्छकलैरिव कल्पितं कादम्बरीरूपवशीकृत मुनिजनहृदयै रिव निर्मितं गुरुमिव सर्वरत्नानां यशोराशिमिवैकत्र घटितं सर्वसागराणां प्रतिपक्षमिव चन्द्रमसो जीवितमिव ज्योसिंकाया लक्ष्मीहृदयमिव नलिनीदलगलज्जलबिन्दुविलासतरलमुत्कण्ठित- मित्र मृणालवलयधवलकरं शरछशिनमिव धनमुक्तांशुनिवधवलितदिङ्मुख मैन्दाकिनीमिव सुरयुवतिकुचपरिमलवाहिनं प्रभावर्षिणमतितारं हारम् । दृष्ट्वा चायमस्य चन्द्रापीडश्चन्द्रातपद्यु- तिमखो धवलिम्न: कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना सेमुचितोपचार- क्रमेण मदलेखामपतन्ती जैग्राह | सा तु तस्मिन्नेव मरकतप्रावणि मुहूर्तमुपविश्य स्वयमु- त्थाय तेन चन्द्रनाङ्गरागेणानुलिप्य तेच द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदा मभिरारचि- तशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच – 'कुमार, तवेयर्म पहस्तिताहंकारकान्ता पेश- लता प्रीतिपैरवशं जनं कमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वैयस्थतामुत्पादयति । कैस्य वा न सैंमाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वन्मूर्तिरेवात्रोपालम्भम- पुजीभूतम् । दिगिति | दिग्गजा दिग्दन्तिनस्तेषां करा: झुण्डादण्डास्तेषां सीकराणां सारमिव रहस्यमिव । मदनेति । मदनद्विपरय कंदर्पहरितनो नक्षत्रमालासंज्ञितमाभरणमिव विभूषणमिव । शरदिति । शरद्वनात्य • यस्तस्य शकलैरिव खण्डैरिव कल्पितं निर्मितं हृदयनिर्मलत्वात् । तदभिप्रायेणाह - कादमिति | कादम्बरी राजसुता तस्या रूपं सौन्दर्यं तेन वशीकृतानि यानि मुनिजनहृदयानि तैर्निर्मितमिव | सर्वरत्नानां समग्रम - णीनां गुरुमिव श्रेष्ठमिव । सर्वसागराणां समग्र समुद्राणामेकत्र घटितं यशोराशिमिव | चन्द्रमसः शशिनः प्र तिपक्षमिव । ज्योत्स्निकायाश्चन्द्रिकाया जीवितमिव | नलिनीति | नलिनी पद्मिनी तस्या दलानि पत्राणि तेभ्यो गलन्तः क्षरन्तो ये जलबिन्दवस्तेषां विलासस्तद्वत्तरलं चञ्चलम् | उत्कण्ठितं लक्ष्मीहृदयमिव । मृणाले- ति | गृणालानि विसानि तेपां वलयं तद्वद्धवलाः करा यस्य स तम् | घनमुक्तो योऽयुनिवहः किरणसमूहस्तेन ववलितं दिङ्मुखं येनैवंभूतं शरच्छशिनमिव सुरयुवतिकुचानां यः परिमल आमोदस्तद्वाहिनं मन्दाकिनी मिवैता- दृशं प्रभावर्षिणमतितारमतिमनोहरं हारम् | दृष्ट्वा वेति । दृष्ट्वा विलोक्य चन्द्रापीडः । चन्द्रेति । चन्द्रातप- द्युतिवद्ध्युतिर्यस्यैवंविधं मुखं यस्य सः | धवलिम्नो विशेषणं वा । पूर्वोपवर्णितमयं हार इवास्य धवलिम्नः का- रणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितेन योग्येनोपचारक्रमेणापतन्तीमागच्छन्तीं मदलेखां जग्राह प्रत्युद्गसेन तामासादितवान् | सात्विति । सा तु मदलेखा तस्मिन्नेव मरकतप्रावण्यश्म गर्भशि- लायां मुहूर्तं क्षणमात्रमुपविश्यावस्थानं कृत्वा स्वयमात्मनोत्थाय तेन चन्दनाङ्गरागेण मलयजविलेप नेनानु- लिप्य ते च पूर्वोक्ते द्वे दुकूले परिधाप्य तैश्च मालती कुसुमदामभिर्जातीपुष्पस्रग्भिरारचितशेखरं विरचितावतंसं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६०
दिखावट