पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । पाण्डुरधारासहस्राणि धारागृहाणि मुक्तानि, आहोस्विदनिल विकीर्यमाणसी करधवलितभुवना- म्वरसिन्धुः कुतूहलाद्धरातलमवतीर्णा' इति । आलोकानुसारप्रहित चक्षुरद्राक्षीदनल्पकन्यका- कदम्बपरिवृतां ध्रियमाणधवलातपत्रामुद्भूयमानचामरद्वयां कादम्बरी प्रतीहार्या वामपाणिना वेत्रलतागर्भेणाद्रव स्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्रक मुद्वहन्त्या द क्षिणकरेण दत्तहस्तावलम्बां केयूरकेण च निःश्वासहार्ये निर्मोकशुचिनी धौते कल्पलतादुकुले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठित करतलया च तमालिकयानुगम्यमाना- मागच्छन्तीं मदलेखाम् तस्याश्च समीपे तरलिकाम, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य सहभुवमिव चन्द्रमसो मृणालदण्डमिव नारायणनाभिपु- ण्डरीकस्य मन्दरक्षोभविक्षिप्तमिवामृतफेन पिण्ड निकरं वासुकिनिर्मोकमिव मन्थनश्रमोज्झितं हांसमिव कुलगृहवियोगगलितं मन्दरमथनविखण्डिताशेषशशिकला खण्डसंचयमिव संहृतं प्रतिमागततारागणमिव जलनिधिजलादुद्भुतं दिग्गंजकरसीकरासार मिव पुँजीभूतं नक्षत्रमा - .9 ३६१ 1 माणानि पाण्डुरधाराणां सहस्राणि येष्वेवंविधानि धारागृहाणि मुक्तानि । आहोखिदिति वितर्क । अनिलेन वायुना विकीर्यमाणा विक्षिप्यमाणा ये सीकरा वातास्तवारीणि तैर्धवलितं शुभीकृतं भुवनं यया सैवविधाम्बर- सिन्धुर्गङ्गा कुतूहलाद्धारातलं पृथ्वीतलमवतीर्णागता । आलोकस्यानुसारेण प्रहितं प्रेषितं चक्षुर्येनैवंभूतश्चन्द्रापीड: कादम्बरीम्, अथ चागच्छन्तीं मदलेखाम्, अथ च तस्याः समीपे तरलिकाम्, तया च सितांशुकं श्वेतवस्त्र- मुपच्छदं यस्मिन्नेतादृशे पटलके पात्रविशेषे गृहीतं हारं चाद्राक्षीत् । अथ कादम्बरीं विशिष्टि - अनल्पे- ति । अनल्पा बढ्यो याः कन्यकाः कुमार्यस्तासां कदम्वः समूहस्तेन परिवृतां सहिताम् | त्रियमाणेति । प्रियमाणं धवलं शुभ्रमातपत्रं छत्रं यस्याः सा ताम् | उद्धूयमानं वीज्यमानं चामरद्वयं यस्याः सा ताम् । प्रतीहार्या द्वारागतजननिवेदनकारिण्या | वामेति । वेत्रलता गर्ने मध्ये यस्यैवंविधेन वामपाणिनापसव्यह- स्तेन कृत्वार्द्रं यद्वस्त्रं तस्य शकलं खण्डस्तेनावच्छन्नमाच्छादितं मुखं यस्यैवंभूतं चन्दनस्यानुलेपनेन सनाथं सहितं नालिकेरसमुद्द्रकं श्रीफलमध्यवर्तिगोलक मुद्वहन्त्या दक्षिणेन करेणापसव्यपाणिना दत्तो हस्तावलम्बो य स्याः सा ताम् । केयूरकेणेति । निःश्वासेन श्वासवातेन हार्ये हर्तुं योग्ये निर्मोकः कनुकस्तद्वच्छुचिनी निर्मले धौते क्षालिते कल्पलतादुकूले दवता धारयतैवंविधेन केयूरकेण च निवेद्यमानो मार्गो यस्याः सा ताम् । अथ मदलेखां विशेयपनाह – मालतीति । मालती जाती तस्याः कुसुमानि पुष्पाणि तेषां दाम सक्तेन अधिष्ठितं अधितिं करतलं या एतादृश्या तमालिकया भुजिष्ययानुगम्यमानाम् । अथ हारस्य श्वेतत्वप्रकर्षमाश्रियो - त्प्रेक्षते – ध्रुवलतेति । क्षीरोदस्य क्षीरसमुद्रस्य या ववलता शुभ्रता तस्याः कारणमिव निमित्तमिव । एतेन क्षीरोदस्य स्वाभाविकी धवलता न, किं तु तद्धवलताया हेतुरेवायम् । क्षीरोदस्य हारगर्भत्वस्य वक्ष्यमाण- a द्वारस्येत्यर्थः । aaratea aur | नारायण