सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ३६० , वेश्य मुहुरुगीर्णोत्पलप्रहारपलायमानपरिजनानुशरणदत्तकतिपयपदा विह्स्य तं विलोकय- न्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् | आरुह्य च प्रतीहार्या निवेदितमहाश्वेता प्रत्यागमना तस्मादवततार | स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिव- सव्यापारमकरोत् । चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनेव कादम्बरीपरिजनेन निवेर्तितस्नानविधिनिरुपहतशिलार्चिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहः- कर्म चक्रे । क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हॅरिणरोमन्थफेनशीकरासारे, सीरायुधद्दलभयनिश्चलकालिन्दीजलत्विषि, तरुणीचरणाळत- करसशोणशोचिषि, कुसुमरज : सिकतिलतले, लतामण्डपोपगूढे, शिखण्डिताण्डवसंगीतगृहे, मरकतशिलातल उपविष्टो दृष्टवान्सहसैवातिबहलधाम्ना धवलेनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लाव्यमानां महीम्, चन्दनरसवर्षे - णेव सिच्यमानान्दिंगन्तान् सुधयेव विलिप्यमाननम्बरतलम् । आसीच्चास्य मनसि -- 'किमु खलु भगवानोषधिपतिरकाण्ड एव शीतांशुरुदितो भवेत् उत यन्त्रविक्षेप विशीर्यमाण- 9 १ 4 मुहुरुद्गीर्ण क्षिप्तं यदुत्पलं तस्य प्रहारस्तेन पलायमानो यः परिजनस्तस्मिन्ननुसरणं तत्र दत्तानि कतिपयपदानि यथा सा विहस्य हास्यं कृत्वा तं विलोकयन्ती, तेन च चन्द्रापीडेन विलोक्यमानातिक्रान्तं व्यतीतं महान्तमपि कालं समयं नाज्ञासीन्न ज्ञातवती । इतथारुल चारोहणं कृत्वैव प्रतीहार्या द्वारपालिकया निवेदितं ज्ञापितं महा- श्वेताप्रत्यागमनं यया सैवंविधा तस्मात्सौधादवततारोत्तीर्णा | स्नानादिषु मन्दादरापि शिथिलोद्यमापि महाश्वेता- नुरोधेन दिवसव्यापारं दिनकृत्य मकरोयधात् । चन्द्रापीडोऽपि तस्मात्क्रीडा पर्वतशिखरादवतीर्योत्तीर्य प्रथम- विसर्जितेने वाद्य प्रहितेनेव कादम्बरीजनेन निवर्तितो विहितः स्नानविधिर्यस्य सः । निरुपहताखण्डा सा शिला तस्या अर्चिता पूजिताभिमतदेवता येन सः क्रीडापर्वतक एव सर्वमाहारादिकमहः कर्म चक्रे । क्रमेणेति । क्रमेणानुक्रमेण कृत आहारो भोजनं येन स मरकतशिलातल उपविष्ट आसीनोऽतिबहलं धाम तेजो यस्मिन्नेवं विधेन धवलेन शुभ्रेणालोकेन जलेनेव निर्वाप्यमाणं विलुप्यमानं दिवसं दृष्टवानित्यन्वयः | मरकतशिलातलं विशेषयन्नाह – क्रीडेति । क्रीडापर्वतकस्य प्राग्भागभाजि पूर्वप्रदेशवर्तिनि मनोहारिणि चित्तक्षोभजनके । मरकतानां नीलत्वादाह - हारीतेति । हारीतः पक्षिविशेषो मृदङ्करस्तद्वद्धरिते नीले | हरिणेति । हरिणानां मृगाणां यो रोमन्थश्चर्वितस्य चर्वणं तस्य फेनः कफस्तस्य शीकराणां वातास्तविप्रुषामा सारो वेगवान्वर्षो यस्मिन् । सीरेति । सीरायुधो रामो हलं सीरं तस्माद्यद्भयं तेन निश्चला कालिन्दी यमुना तस्या जलं पानीयं तद्व- त्त्विट् कान्तिर्यस्मिन् | तरुणीति | तरुणीनां मानिनीनां यश्चरणाक्तकः पादरञ्जनार्थ यावकरसस्तेन शोणा रक्ता शोचिः कान्तिर्यस्मिन् | कुसुमानां पुष्पाणां रजो धूलिस्तेन सिकतिलं सिकतायुक्तं तलं यस्मिन् । लता- मण्डपैरुपगूढे व्याप्ते | शिखण्डितेति । शिखण्डिनां मयूराण । त्त ण्डवं नृत्यं तस्य संगीत f