पूर्वभागः । ३५९ क्षणा मय्येवंजातचित्तवृत्तिस्तदा न चिरात्स एवैनामप्रार्थितानुकूलो मन्मथ: प्रकटीकरि- व्यति । स एवास्य संशयस्य छेत्ता भविष्यति' इत्यवधार्योत्थायोपविश्य च ताभिः कन्य- काभिः सहा क्षैर्गेयैश्च विपश्चीवाद्यैश्च पाणविकैश्च स्वरसंदेह विवादैश्च तैस्तैरालापैः सुकुमारै: कलाविलासैः क्रीडन्नासांचक्रे | मुहूर्त च स्थित्वा निर्गम्योपवनालोकनकुतूहलक्षिप्त चित्तः क्री- डापर्वतशिखरमारोह | कान्दम्बरी तु तं दृष्ट्वा चिरयतीति महाश्वेतायाः किल वर्मावलो- कयितुं विमुच्यतां गवाक्षमित्युक्त्वा नङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोह । तत्र च विरलपरिजना, संकलशशि मण्डलपाण्डुरेणात पत्रेण हे मैदण्डेन निवार्यमाणातपा, चतुभिर्वा- लव्यजनैश्च फेनशुचिभिरुयमानैरुपवीज्यमाना, शिरसि कुसुमगन्धलुब्धेन भ्रमता भ्रमर कुलेन दिवापि नीलावगुण्ठनेनेव चन्द्रापीडाभिसरणवेपाभ्यस्यन्ती, मुहुश्चामर शिखां समा- सज्य मुहुश्छत्रदण्डमवलम्ब्य मुहुस्तमालिकास्कन्धे करौ विन्यस्य मुहुर्मदैलेखां परिष्वज्य मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलोक्य मुहुरावलितत्रिवलीवलया परिवृत्य मुहुः प्रतीहारीवेत्रलताशिखरे कपोलं निधाय मुहुर्निश्चलकर विवृतामधरपल्लवे वीटिकां नि- श्चैव मनसा खेदितेन किम्, यदि सत्यमेवं धवलेक्षणा कादम्बरी मध्येवं जातचित्तवृत्तिस्तदा न चिरात्स्तोक- कालेनाप्रार्थित एवानुकूलो दाक्षिण्यवान्मन्मथः स एवैनां चित्तवृत्ति प्रकटीकरिष्यति । स एवेति । स एव कं- दर्प एव । अस्येति । अस्याश्चित्तवृत्तिर्मयि वर्तते न वेयेवरूपस्यास्य संशयस्य छेत्ता दूरीकर्ता भविष्यति । इत्य- बधार्य निश्चयं कृत्वोत्थायोपविश्य च ताभिः पूर्वोक्ताभिः कन्यकाभिः सहाक्षैः पाशकैर्गयैर्गानैश्च । विपञ्ची वाद्यं रोपां तैश्च । पणवो वादिनविशेपो विद्यते येषां ते पाणविकस्तिश्च | स्वराणां षड्जादीनां ये संदेहास्तेषां विवाद - च । सुभाषितानि सूक्तानि तेपां गोष्टीभिश्च । अन्यैश्च पूर्वोक्तव्यतिरिक्तैस्तैस्तैराला पैश्च सुकुमारैः कलाविलासैः क्री- उन्क्रीडां कुर्वनाराांचक्रेऽधितस्थौ | मुहूर्त च स्थित्वा तत्रावस्थानं विधाय तदनन्तरं निर्गम्य वहिरागत्योपवन- स्यालोकनं तस्य कुतूहलं कौतुकं तेनाक्षिप्तं चित्तं यस्य सः क्रीडापर्वतशिखरमारुरोहारूढवान् | कादम्बरी तु तं चन्द्रापीडें दृष्ट्वा विलोक्य चिरयति विलम्वते इति महाश्वेतायाः किल वर्त्म मार्गमवलोकयितुं वीक्षितुं गवाक्षं वातायनं विमुच्यतामुद्धाट्यतामित्युक्त्वा नङ्गक्षिप्तचित्ता सौवस्योपरितनं शिखर मारुरोहारूढवती । तत्रचेति । तस्मिन्स्थले। इतः कादम्बरी विशेषयन्नाह - विरलेति । विरलः स्वल्पः परिजनो यस्याः सा | सकलेति । सकलं समग्रं यच्छशिमण्डलं चन्द्रविम्वं तद्वत्पाण्डुरेण श्वेतेन हेमदण्डेन सुवर्णदण्डेनातपत्रेण छत्रेण निवा- र्यमाणो दृरीक्रियमाण आतपो यस्याः सा | उद्भूयमानः कम्पमानैः फेनः कफरतद्वच्छुचिभिर्निर्मलैश्चतुर्भिर्वा - लव्यजनेचामरैचोपवीज्यमाना | शिरस्सीति | शिरसि मस्तके कुसुमानां पुष्पाणां गन्धस्तेन लुब्धेन गर्धेन भ्रमरकुलेन मधुकरवृन्देन भ्रमता पर्यटता | दिवापि भ्रमरकुलस्य नीलवात्तत्साम्येनाह–नोलेति । नीलं य- दवगुण्ठनं शिरोवेष्टनं तेनेव | अभिसारिकावेपमधिकृत्याह – चन्द्रेति । चन्द्रापीडस्याभिसरणं तत्र यो वेष- स्तमभ्यस्यन्त्यभ्यासं कुर्वन्ती । उत्कण्ठिताचेष्टितान्याह- मुहुरिति । मुहुः क्षणमात्रं चामरशिखां वालव्यजन- 1
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५७
दिखावट