पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ३५८ णितत्रिभागेण हृदयान्तःपतत्स्मरशरकुसुमरजोरूषितेनेव चक्षुषा तिर्यग्विलोकयति । मद्वि- लोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । मल्लज्जाविवर्तमानवदना च प्रतिबिम्बप्रवेश लोभेनेव कपोलदर्पणमर्पयति मदवकाशदायिनो हृदयस्य प्रथमाविनयले - खामिव कररुहेण शयनाङ्के लिखति । मत्ताम्बूलवीटिकोपनयनखेदविधूतेन रक्तोत्पलभ्रंम मरवृन्देन करतलेन स्निं मुखमिव गृहीततमालपल्लवेनेव वीजयति । पुनश्चाचिन्तयत्- 'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहँस्रैरेवं मां विप्रलभते, लुप्तत्रिवेको यौवन- मदो मदयति, मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोsपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । स्वयमुत्पादितानेकचिन्ताशताकुला कवि- मतिरिव तरलता न किंचिन्नोत्प्रेक्षते | निपुणमैदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्नालिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न कचिन्नात्मानमर्पयति । स्वप्न ईंवानुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थाप- यति' । भूयश्च चिन्तितवान् - 'किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवले- सावधारणं तेन मकरकेतुनैव मयि कादम्बरी नियुक्ता नियोजिता, येन मन्मथनियोगेन सास्रेणास्रं रुधिरं तेन सरा- गेण स्नेहयुक्तेनाकूणितो वक्रीकृतस्त्रिभागो यस्मिन् । हृदयेति हृदयान्तः पतन्तो ये स्मरशराः कंदर्पबाणास्त एव कुसुमानि तेषां रजः परागस्तेन रूषितेनेव चक्षुषा नेत्रेण तिर्यग्वत चिन्ताधिरूढामधिकृत्योक्तम्, अन्यथा प्रासादादिरूढायास्तस्या विलोकनासंभवात् । एवमन्यानपि तद्यापारान्स्वानुकूलानेव चिन्तयन्नाह --- मदिति । मद्विलोकिता सती लज्जया धवलेन स्मिता लोकेन | शुभ्रत्वसाम्यादाह — दुक्कूलेति । दुकूलेनेवात्मा- नमारृणोत्याच्छादयति । प्रतिबिम्बमधिकृत्याह – मदिति | मल्लजया विवर्तमानं वदनं यस्या एवंविधापि प्रति- बिम्बस्य यः प्रवेशस्तस्य लोभेनेव कपोलदर्पणमर्पयति । मुख विवर्तनेऽपि कपोलस्य तदभिमुखत्वादिति भावः ॥ मखकर्षणचेष्टामधिकृत्याह - मदिति । मामवकाशदायिनो हृदयस्य प्रथमामाद्यामविनयलेखामिव कर रुहेण पुनर्भवेन शयनस्य पल्यङ्कस्याङ्क उत्सङ्गे लिखति । ताम्बूलप्रदानसमये तस्याः करकम्पक्रियामधिकृयाह – म मेति । मम ताम्बूलवीटिकाया यदुपनयनं प्रापणं तस्माद्यः खेदः प्रयासस्तेन विधूतेन कम्पितेन रक्तोत्पलं कोकनदं तस्य यो भ्रमस्तेन भ्रममरवृन्दं मधुकरपटलं यस्मिन्नेतादृशेन करतलेन गृहीततमालपल्लवेन । भ्रम राणां तत्सादृश्यादिति भावः । मदिति । मद्विलोकनात्प्रेम्णा स्विन्नं मुखमिव वीजयति । पुनरिति । पुन- रचिन्तयच्चिन्तितवान् । किं तदित्याह – प्रायेणेति । प्रायेण वाहुल्येन मानुष्य के भवे सुलभा सुप्रापा लघुता मिथ्या मुधा संकल्पसहस्रैर्मनोरथ सहस्रैरेवं पूर्वोक्तप्रकारेण । मामित्यात्मनिर्देशः । विप्रलभते । वञ्चयतीत्यर्थः । तथा लुप्तो विवेको येनैतादृशो यौवनमदस्तारुण्यगर्वो मदयति मदं जनयति । एवं मदनोऽपि ।यत स्तिमिरोपहतेव यूनां दृष्टिरल्पमपि काळुष्यं महत्पश्यति । अल्पापि योषितां चित्तविकृतिर्बहुत्वेन जानातीत्यर्थः । स्नेहलवोऽपि