पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३५७ पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः, प्रत्याख्यानयोग्यो न वा' इति तत्कालागते- नाभिहितेव वाष्पेण अपनयामि ते सहासुभिधैर्यावलेपमिति निर्भसिंतेव मनोभुवा पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेवमस्तमितप्रतिसमाधानवैलात्प्रेमावेशेना स्वतन्त्री- कृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापैर्वतकमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विमेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया | रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा, तत्संगमकालातिपातासहेव मनो गमाय वियुक्तवती, न परिजनम् । चन्द्रापीडोऽपि प्रविश्य स्वच्छन्दं कादम्बरीहृदयमिव द्वितीयं मणिगृहं शिलातला स्तीर्णांया मुभयत उपर्युपरि निवेशि- तबहूपधानायां कुथायां निपव्य केयूरकेणोत्सङ्गेन गृहीतचरणयुगलस्ताभिर्यथादिष्टेषु भूमिभा- गेषूपविष्टाभिः कन्यकाभिः परिवृतो दोलायमानेन चेतसा चिन्तां विवेश | किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्या: सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः आहोस्बिदनारा धितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ता, येन मां सास्रेण सरागेणांकू- दुर्भूतेन बाष्पेन नेत्राम्बुनेत्यभिहितेवेति कथितेव | इतिवाच्यमाह - अविशेषेति । हे अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया वयासौ जनो दृश्यतामालोक्यताम् । न चाप्रत्याख्यानयोग्यो निराकरणयोग्यः । इतीति । इति मनोभुवा कंदर्पेण निर्भसिंतेवाधिक्षिप्तेव | इतिथोत्यमाह -- अपेति । ते तवासुभिः प्राणैः सह धैर्या- वलेपं धीरिमाहंकारमपनयामि दूरीकरोमि । पुनरपीति । तथैव पूर्वोक्तप्रकारेणैव चन्द्रापीडस्याभिमुखं हृदयं यस्या एवंभूता पुनरपि वभूव जये । उत्कण्ठातिशयेन रतिभावं पुनः पोषयन्नाह —तदेवमिति । तदेवं पूर्वोक्त प्रकारेणास्तमित मस्ततां प्राप्तं यत्समाधानं किमनेन चपलेन कार्यमित्यादि निर्वेदरूपं तदेव बलं तस्मात्प्रेमा चन्द्रापीडविषयकः स्मृतिरूपस्तस्या वेशेन प्रवेशेनाखतन्त्रीकृता परायत्तीकृता परवशेव पराधीनेवोत्थायोत्थानं कृत्वा जालवातायनेन जालगवाक्षेण तमेव क्रीडापर्वतकमवलोकयन्ती पश्यन्त्यतिष्ठदासत् । पुनर्भावानेवाह- तत्रस्थेति । तत्रस्था वातायनोपविष्टा सा तं चन्द्रापीडमांनन्दजले हर्षाश्रुणा यद्यवधानं तेनोद्विग्नेवोद्वेगं प्राप्तेव स्मृत्यानुभवव्यतिरिक्तज्ञानेन ददर्शालोकयांचकार न चक्षुषा । अङ्गुलिभ्यो गलितो यः स्वेदस्ततस्य परामर्शः संश्लेषस्तेन भीतेव त्रस्तेव चिन्तया लिलेख | न चित्रतूलिकया तदाकृतिं भावनया भावितवती । न कूर्चिकया लिखितवतीत्यर्थः । रोमाञ्च इति । रोमाञ्चो रोमोद्गमस्तेन तिरोधानमाच्छादनं तेन शङ्कितेव हृदयेन चित्तेनालि- लिङ्गा श्लेषं कृतवती । न वक्षसा भुजान्तरेण । तस्येति । तस्य चन्द्रापीडस्य यः संगमः संश्लेषस्तत्र कालातिपातः कालविलम्वस्त सोढुमस हेवाशक्तेव गभाय तदालिङ्गनाय मनो नियुक्तवती प्रेषितवती । न परिजनम् । अ- त्रायमभिप्रायः — आनन्दजलं व्यवधायकमिति न चक्षुषा तथादर्शनमित्युद्वेगः | अङ्गुलीगलितस्वेदेन चित्रतू लिका विलिखनस्य विलोपो भयहेतुर्वक्षसालिङ्गनेनेव रोमाञ्च एवं व्यवधायक इति सर्वथा नानान्तरितालिङ्गन मिति मनसः सत्वगत ला तस्य परिजनस्य तथालाभावात्कालातिपातः । अत्र चानन्दजलादीनां