पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३६७ तिनि भगवति पूष्णि क्रमेण च दिनपरिलम्बनरोषरक्ताभिः कामिनीदृष्टिभिरिव संक्रामित- शोणिनि व्योम्न्नि संहृतशोचिषि जाते जरठहारीतहरितवाजिनि, रविविरैहमीलितसरोजसं- हतिषु, हरितायमानेषु कैमलवनेषु, श्वेतायमानेषु कुमुदखण्डेषु, लोहितायमानेषु दिङ्मुखेषु, नीलायमाने शर्वरीमुखे, शनैः शनैश्च पुनर्दिन श्रीसमागमाशा भिरिवानुरागिणीभिः सहैव दीधिति - भिरदर्शनतामुपगते भगवति गभस्तिमालिनि, तत्कालविजृम्भितेन च कादम्बरी हृदयरोगला- गरेणेवापूरिते संध्यारागेण जीवलोके, कुसुमायुधानलहामानहर्दयसहस्रधूम इव जनितमानि - नीनँयनवारिणि विस्तीर्यमाणे तरुणतमालविषि तिमिरे, दिक्क रिकरीवकीर्णसीकरासार इव श्वेतायमानतारागणे गंगने, जातायां चादर्शनक्षमायां वेलयां सौधशिखरावततार कादम्बरी क्रीडापर्वतकनितम्बाच्च चन्द्रापीड: | तैंतोऽचिरादिव गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः कलुषमुखीः, कुपिता इव प्रसादयन्नाशा: प्रबोधाशङ्कयेव परिहरन्सुप्ताः कमलिनी:, लान्छनच्छ- लेन निशामिव हृदयेन समुद्रहन्, रोहिणीचरणताडनलग्नमलक्तकरस मिवोदयरागं दधानः, तिमिरनीलाम्बरां दिवमभिसारिकामिवोपसर्पन, अतिवल्लभतया विकिरन्निव सौभाग्यमुद- चिष्यात्तदीवितौ एवंविधे पृष्णि सूर्ये जाते सति । तथा क्रमेण च परिपाट्या दिनस्य सूर्यस्य परिलम्बनमस्तसम- यस्तेन रोपो नायको दत्तसंकेतोऽद्यापि नागत एवंरूपस्तेन रक्ताभिः कामिनीदृष्टिभिरिव संक्रामिता शोणिमा रक्तिमा यस्मिन्नेवंविधे व्योम्नयाकाशे सति । पुनः केषु । रविरिति । रविः सूर्यस्तस्य विरहो वियोगस्तेन मीलिताः संकुचिता याः सरोजसंहृतयः कमलराजयस्तासु । पुनः केषु | कमलवनेषु नलिनखण्डेषु हरितायमा- नेषु नीलायमानेषु सत्सु । तथा कुमुद खण्डेषु कैरववनेषु श्वेतायमानेषु गौरववदाचरमाणेषु । प्रफुल्लितत्वादिति भावः । तथा लोहितायमानेषु रक्तायमानेषु दिखेषु सत्सु तथा नीलायमाने हरितायमाने शर्वरीमुखे प्रदोषे । शनैःशनैः पुनर्दिनथियां यः समागमस्तस्याशाभिरिवानुरागिणी भिर्दीधितिभिः सह भगवति गभस्तिमालिनि सूर्येऽदर्शनतामदृश्यतामुपगते प्राप्ते सति । पुनः संभ्यारागेण जीवलोक आपूरिते सति । केनेव । तत्कालविजृ- म्भितेन तदात्वप्रसृतेन कादम्वर्या हृदयरागस्तलक्षणो यः सागरः समुद्रस्तेनेव | पुनः कस्मिन् | विस्तीर्यमाणे विस्तारं प्राप्यमाणे | तरुणो नवीनो यस्तमालस्तापिच्छः तस्य विडिव त्विट् यस्मिन्नेवंविधे तिमिरेऽन्धकारे सति । तस्य नीलत्वेन साम्यादाह - कुसुमेति । कुसुमायुध एवानलो वहिस्तेन दह्यमानं ज्वलमानं यद्धृद- यसहस्रं तस्य धूम इव । कीदृशे । जनितमुत्पादितं मानिनीनां नयनेषु वारि येन तस्मिन् | अद्यापि पतिगृहे नागत इति दुःखेन मानिनीनयनेष्वथुसद्भाव इत्यर्थः । एतेन धूमसादृश्यं ध्वनितम् । दिगिति । दिक्करिणां दिग्गजानां ये कराः शुण्डादण्डास्तैरव कीर्णोऽवध्वस्तो यः सीकरासारस्तस्मिन्निव | श्वेतायमाने दीप्यमाने ता- रागणे नक्षत्रसमूहे गगने व्योम्नि जाते सति । अन्वयस्तु प्रागुक्तः । ततस्तदनन्तरमचिरादिव स्तोककालेनेव सुधासूतिश्चन्द्र उदगादुदयं प्राप्तवान् | गृहीतेति | गृहीताः पादा यस्य सः । प्रसाद्यमान इव | काभिः ।