३५२ कादम्बरी । यमासामुपेक्षसे, ततोऽहं नियतमात्मानमुत्सृज्जामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन इत्य- वमभिहिता च तथा कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमियं वदति' इति मदलेखां पप्रच्छ । सा चाकथयत् – 'एषा भर्तृदुहितुः सखी कादम्बर्या: कालि- न्दीति नाना सारिका, ऐतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जा यापदं ग्राहिता । अद्य चायमनया प्रत्यूपसि कादम्बर्यास्ताम्बूलवाहिनी मिमां तैमालि- कामेकाकिनीं किमपि पाठयन्दृष्टो यतः ततः प्रभृति संजा तेर्ष्या कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति' इत्ये- तदा कर्ण्य स्फुटस्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् - 'अस्त्येपा कथा श्रूयत एवैतद्राजकुले, कर्णपरम्परया परिजनोऽध्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दि- गन्तरेष्वप्ययमालापो वर्तत ऎव, अस्माभिरण्येतदाकर्णित मेव, यथा किल देव्याः कादम्बर्या- स्ताम्बूलाँयिनीं तैमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो नित्रपोऽनया सह, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं यन्न निवारयतीमां चपलां दुष्टदासीम्, अथवा देव्यापि कथितैव निस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या | किमिदानीमियं करोतु, यदेतत्सापढयकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः, १ ५ - मम् । यदीति । यदि मामनेन शुकेन परिभूयमानां पराजितामुपेक्षस उपेक्षां करोषि ततोऽहं नियत- मात्मानमुत्सृजामि । भविष्यति वर्तमाना । त्यक्ष्यामीत्यर्थः । सत्यं स्यात्तथा शपामि शपथं करोमि । केन । ते तव पादपङ्कजस्पर्शेन । तवा पूर्वक मित्यर्थः । तयेत्येवमभिहितोक्ता कादम्बरी स्मितमकरोत् । अवि- दितेति । अविदितोऽज्ञातो वृत्तान्त उदन्तो यस्याः सैवंविधा तु महाश्वेता किमियं सारिका वदतीति मदलेखां पप्रच्छ | सा चेति । सा मदलेखा इत्यकथयदित्यवोचत् । किमुवाचेत्याह - एषेति । एषा भर्तृदुहितुः का दम्बर्या: कालिन्दीति नाम्ना सखी सारिका एतस्य परिहासनाम्नः शुकरय भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता स्त्रीत्वं प्रापिता । अद्य चेति । अद्य दिने चानया सारिका प्रत्यूषसि प्रभाते कादम्बर्यास्ताम्बूलकरङ्कवा- हिनी मेकाकिनीमिमां तमालिकां किमपि पाठयन्दृष्टः । ततः प्रभृति तद्दिनादारम्य संजातेर्ष्या यस्याः सा कोपपरा- सुखी क्रोधावाङ्मुखी नैनं शुकमुपसर्पति समीपे गच्छति, नालपति ब्रवीति, न स्पृशति स्पर्श करोति, न विलो- कयति नेक्षते, सर्वाभिरस्माभिः प्रसाद्यमानापि प्रसन्नीक्रियमाणापि न प्रसीदति न प्रसन्नीभवति । इत्येतदाक- र्ण्य श्रुत्वा | स्फुटमिति । स्फुटं स्पष्टं स्फुरितं स्पन्दितं कपोलयोरुदरं यस्यैवंविधश्चन्द्रापीडो मन्दं मन्दं वि- हस्य । स्मितं कृत्वेत्यर्थः । इत्यब्रवीदित्यवोचत् । अस्तीति । एषा कथास्ति । एतद्राजकुले श्रूयते एवमाकर्ण्यते । कर्णपरम्परया परिजनोऽपि सेवकजनोऽप्येवमामन्त्रयते । एवं कथयतीत्यर्थः । वहिरपि जना एवं कथयन्ति । परदेशेष्वप्यमालापो वर्ततएव अस्माभिरप्येतत्पूर्वतमाकर्ण श्रत वात व दर्शयन्नाह -
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५०
दिखावट