सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूवभागः । ३५३ परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्ययां विषं वा मास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् | नोकमपरमस्ति योषितां लघिम्नः कारणम्, यदि चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति तदा धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरॅस्या, क एनां पुनरालापयिष्यति, को यावलोकयिष्यति, को वास्या नाम ग्रहीष्यति' इत्येवमभिहितवति तस्मिन्सर्वास्ता: सह काढ़- म्बर्या क्रीडालापभोषिता जहसुरङ्गनाः | परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद - धूर्त राजपुत्र, निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एपापि बुध्यत एवैता- वतीर्वक्रोक्ती: । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेपा भुजंगभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च कोपप्रसादयोः' इति । अत्रान्तरे चागत्य क चुकी महाश्वेतामवोचत्- 'आयुष्मति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयते' इति । एवमभिहिता च गन्तुकामा 'सखि, चन्द्रापीड: कास्ताम्' इति कादम्बरीमपृच्छत् । असौ तु नेनु पर्याप्तमेवानेक स्त्री हृदय सहस्रावस्थानमनेनेति । मनसा द्धेतोरेतत्सापत्न्यकरणं नारीणां स्त्रीणां प्रधानं मुख्यं कोपकारणम् । अग्रणी मुख्यो विरागस्य विरक्तताया हेतुः । परं परिभवस्थानं मुख्यं पराभवगृहम् । इयमेव कालिन्द्येव केवलमतिधीरा । अस्मिन्नर्थे हेतुमाह — यदिति । य द्यस्मात्कारणादनया कालिन्द्या अनेन दौर्भाग्यगरिम्णा शुकेन कृत्वा जातमुत्पन्नं वैराग्यं यस्याः सैवंविधया विषं नावादितं न भक्षितम् । अनलो वहिर्वा नासादितो न गृहीतः । अनशनं प्रायो वा नाङ्गीकृतम् | योषितां लघिम्नः कारणं नह्येकमपरमस्ति । यदि चेति । इयं कालिन्दीदृशेऽपराधेऽप्यनुनीयमाना प्रसन्नीक्रियमाणा अनेन शुकेन प्रत्यासत्तिं संबन्धमेष्यति गमिष्यति, तदेमां धिक् । अनयालं कृतम् । दूरतो वर्जनीया त्याज्ये- यम् । अभिभवेन निरस्या दूरीकरणीया । क एनां पुनः आलापयिष्यति । को वावलोकयिष्यति । को वास्याः कालिन्या नामाभिधानं ग्रहीष्यतीत्येवं पूर्वोक्तप्रकारेणाभिहितवति कथितवति तस्मिन्राज्ञि सर्वास्ता अङ्गनाः कादम्वर्या सह जहसुर्हसितवत्यः । कीदृश्यः | क्रीडालापेन नर्मालापेन भाषिता वासिताः । परीति । परि- हासः शुकस्तु तस्य चन्द्रापीडस्य नर्मभाषितमाकर्ण्य श्रुत्वा जगादोवाच । हे धूर्त राजपुत्र, निपुणाभिज्ञेयम् वयान्येन वा व्यतिरिक्तपुंसा लोलापि चपलापि प्रतारयितुं न शक्यते न पार्यते । एषेति । एतावती - क्रोक्तीरेषापि बुध्यते जानाति । इयमपि परिहासजल्पितानि जान्यात्येव । अस्या अपि राजकुलेन संपर्कः सं वन्धस्तेन चतुरा चायुक्ता मतिर्बुद्धिः । अतो विरम्यतां मौनं क्रियताम् | नर्मालापभाषणादिति शेषः । भु- जंगाः कामिनस्तेषां भङ्गिभाषितानां वक्रोक्तीनामेषाऽभूमिरस्थानम् । इयमेव हि मञ्जुभाषिणी मनोज्ञालापिनी कोपप्रसादयोः कालं समयं कारणं निमित्तं प्रमाणं तद्व्यवस्थापकं पञ्चावयवं वाक्यं विषयं गोचरं प्रस्तावमवसर