पूर्वभागः । ३५१ तया शून्यप्रसारितेन चन्द्रापीडहस्तान्वेषणायेव पुरःप्रवर्तितनखांशुनिवहेन वेपथुचलितवल- यावलीवाचालेन संभाषणमिव कुर्वता हस्तेन स्वेदसलिलपातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, 'अद्यप्रभृति भवतो हस्ते वर्तते' इति जी- वितमिव स्थापयन्ती ताम्बूलमदात् । आकर्षन्ती च करकिसलयं भुजलतानुसारेण स्पर्शतृ- घ्णागतमनङ्गशर भिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् | गृहीत्वा चापरं ता- म्बूलं महाश्वेतायै प्रायच्छत् । अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमा- रानुकारिणा चच्चपुटेन मरकतयुतिपक्षतिना मैन्थरगतेन शुकेना नुवध्यमाना, कुमुदकेसर- पिञ्जरतया चरणयुगलस्य चम्पककलिकाकारतया, च मुखस्य कुवलयदलनीलतया च पक्ष- तीनां कुसुममयी वागत्य सारिका सक्रोधमवादीत्—'भर्तृदारिके कादम्बरि, कस्मान्न निवार- यस्ये नम लीक सुभगाभिमानिनं दुर्विनीतं मामनुवनन्तं विहंगापसदम् । यदि मामनेन परिभू- १ 1 प्रसारितेन विस्तारितेन चन्द्रापीडस्य यो हस्तस्तस्यान्वेषणं गवेषणं तदर्थमिव पुरोऽग्रे प्रवर्तितः प्रचलितो नखानां पुनर्भवानामंशुनिवहो यस्य स तेन | वेपथुरिति । वेपथुः कम्पस्तेन चलिता कम्पिता या वलयानां पारिहा- र्याणामावली श्रेणी तथा वाचालेन मुखरेण | शब्दसाम्यमाह - संभाषणमिव जल्पनमिव कुर्वता विदधता । स्वेदेति । स्वेदसलिलं घर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथेति क्रियाविशेषणम् । किं कुर्वन्ती । इत्यात्मानमिव प्रतिग्राहयन्ती ग्रहणं कारयन्ती | इतिशब्दयोसमाह - गृह्यतामिति । अयं मलक्षणो दा- सजनो मन्मथेन कंदर्पेण दत्तोऽर्पितो गृह्यतां स्वीक्रियताम् । पुनः किं कुर्वन्ती । इति जीवितमिव प्राणितमिव स्थापयन्ती | इतिशब्दद्योत्यमाह - अद्येति । अयप्रभृत्यद्यदिनादारभ्य भवतस्तव हस्ते वर्तते । त्वदधीनेत्यर्थः । अन्वयस्तु प्रागेवोक्तः । पुनः किं कुर्वन्ती । ताम्बूलप्रदानानन्तरं कर किसलयं हस्तपल्लवमाकर्षन्त्याकर्षणं कुर्व- ती च पतितमपि स्रस्तमपि रत्नवलयं मणिकटकं नाज्ञासीन्न ज्ञातवती । एतेन तन्मयत्वं सूचितम् | वलयस्य लोहितमणिनिर्मितत्वसाम्यादाह - भुजेति । भुजलता बाहुलता तदनुसारेण तन्मार्गेण स्पर्शतृष्णा तयागतं प्राप्तमनङ्गशरेण कंदर्पबाणेन भिन्नं मध्यं यस्यैवंविधं हृदयमिव | गृहीत्वेति । अपरं तव्यतिरिक्तं ताम्बूलं नागवलीदलं महाश्वेतायै प्रायच्छददात् । अथेति । ताम्बूलप्रदानानन्तरं सहरौवागत्यैत्य सारिका पीतपादा सक्रोधं तथा स्यात्तथावादीदवोचत् । की- दृशी | त्वरिता शीघ्रा गतिर्यस्याः सा । पुनः कीदृशी | शुकेन कीरेणानुवध्यमाना निरुध्यमाना | अथ शुकं विशेष- यन्नाद – चहतेति । कण्ठेन निगरणेन वहता धारयता | कम् | त्रिवर्णरागम् | किमिव । इन्द्रायुधमिवास- ण्डलधनुरिव कुण्डलीकृतं वर्तुलीकृतम् । जातिवर्णनमेतत् । एतदेव विवृणोति - विद्रुमेति । चञ्चुपुटेन त्रोटिसंपुटेन कृत्वा विद्रुमाकरं प्रवालप्ररोह मनुकरोतीत्येवंशीलः स तेन | मरकतेति । मरकतस्य द्युतिरिव ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४९
दिखावट