पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० कादम्बरी । । , तमुखी शनैरव्यक्तमिव प्रियसखि, लजेऽहम् | अनुपजातपरिचयाप्रागल्भ्येनानेन गृहाण | त्वमेवास्मै प्रयच्छ' इत्युवाच सा ताम् । पुनःपुनरभिधीयमाना च तया कथमपि ग्राम्येव चिरादानाभिमुखं मनश्चक्रे | महाश्वेतामुखाँदनाकर्पितदृष्टिरेव वेपमानाङ्गयष्टिः, ऑकुललो- चना, स्थूलस्थूलं निःश्वेसन्ती, निजशरप्रहारमूर्चिछता मन्मथेन त्रपितेव स्वेदजलविसरैः, स्खे- दुजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव याचमाना, साध्वसपरवशा, पतामीति लँगि- तुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भ हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भ- स्थलास्फालनसंक्रान्तसिन्दूरमिव खभावपाटलम्, धनुर्गुणाकर्षणकृत किरणश्यामलम्, कचग्र- हाक्कष्टिरुदिता रिलक्ष्मीलोचनपरामर्शन लग्ना जन बिन्दुमिव विसर्पन्नख किणतयातिरभसेन मैं- घाविताभिरिव विवर्धिताभिरिव प्रहसिताभिरिवाङ्गुलीभिरुपेतम्, स्पर्शलोभाव तत्कालकृत- संनिवेशाः सरागाः पञ्चापीन्द्रियवृत्तीपरुन्तं प्रसारितवान्पाणिम् । तत्र च सा तत्कालसुलभविलास दर्शनकुतूहलिभिरिव कुतोऽव्यागत्य सर्वरसरधिष्ठिता, तेनानिबद्धलक्ष्य- । 1 चावनमितं मुखं यया सैर्वविधाहं हे प्रियसखि, लज्जे त्रपे । तत्र हेतुमाह — अनुपजातेति । अनेन सममनुपजातोऽनुत्पन्नः परिचयो यस्याः सा | प्रगल्भानां तत्क्षणादेव परिचय इत्यत आह – अप्रागेति । अप्रागल्भ्येनाधान गृहाण | त्वमस्म प्रयच्छ देहि । पुनः पुनर्वारंवारमभिधीयमाना कथ्यमाना तथा महा- श्वेतया । त्रासवितर्कमूर्च्छादिव्यभिचारिभावावस्थान्तरमाह- कथमपीति । कथमपि महता कष्टेन ग्राम्येव- ग्रामीणेव चिराच्चिरकालेन दानाभिमुखं मनश्चित्तं चक्रे विदधे | महाश्वेतामुखादनाकर्षितदृष्टियया सर्वविधैव वे पमाना कम्पमानाङ्गयष्टिः यस्याः । आकुले व्याकुले लोचने नेत्रे यस्याः सा । किं कुर्वन्ती | स्थूलस्थूलं यथा स्यात् तथा निःश्वसन्ती एतनं गृह्णन्ती | मन्मथेन कंदर्पेण निजशरप्रहारेणात्मीयवाणाभिघातेन मूच्छिता मूर्च्छा प्रापिता । स्वेदजलविसरैर्घर्मपानीय समूहैः स्त्रपितेव स्नानं कारितेव | स्वेदजलविसरैर्निमज्जनभयं तेन च हस्ताव- लम्बनमिव याचमाना | साध्वसं भयं तेन परवशा पराधीना | पतामीति कृत्वा लगितुमिव कृतः प्रयत्नो यया सा ताम्वूलगर्भ हस्तपछवं प्रसारयामास विस्तारितवती । अथ नायकानुरक्तिविशेषं प्रदर्शयन्नाह - चन्द्रेति । चन्द्रा- पीडः । तु पुनरर्थे । पाणिं करं प्रसारितवान्विस्तारितवान् । अथ पाणिनिष्टमारुण्या तिशयं विशेषयन्नाह – जयेति । जयार्थं यः कुञ्जरो गजस्तस्य कुम्भस्थलं तस्यास्फालनेन तादृक्संयोगविशेषेण संक्रान्तं लग्नं सिन्दूरं नागजं यस्मि- नेतादृशमिव स्वभावेन खारसिकेन पाटलं श्वेतरक्तम् । धनुरिति । धनुषश्चापय यो गुणः प्रत्यञ्चा तस्याकर्ष- णमाकृष्टिस्तेन कृतो विहितः किणो रूढत्रणपदं तेन श्यामलं कृष्णम् । कचेति । कचग्रहेणाकृष्टिस्त या रुदिता या अरिलक्ष्मीः शत्रुरंमा तस्या लोचनपरामर्शनेन लग्ना अञ्जनविन्दवो यस्मिन्नेतादृशमिव । किणस्य कृष्णत्वात्तदुपमानमित्यर्थः । विसर्पन्तः प्रसरन्तो ये नखकिरणास्तेषां भावस्तत्ता तयातिरभसेनातिवेगेन प्रधान विताभिरिवोच्चलिताभिरिव, विवर्धिताभिरिव वृद्धिं प्राप्ताभिरिव ग्रहसिताभिरिव हास्यं कुर्वाणाभिरिवाङ्गुलीभिः भिरुतं हितम स्पर्शालभाति । स्पर्श 1 ल भो गर्धस्तस्मात्ता स्मन्क्ष कृतः निवेश: क