पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः | ३४९ णप्रभावर्षिण्यैपाङ्गदेशे सप्रेम पाणिना स्पृशन्ती, मधुकरभरपर्यस्तं च कर्णावतंसं समुत्क्षेप- यन्ती, चामरपवनविधूंतिपर्यस्तालकवडरी मनुष्य जमाना कादम्बरीमनामयं पप्रच्छ । सातु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छादिव कुशलमाचचक्षे | तैदा समुपजातशोकापि च महाश्वेतामुखनिरीक्षणतत्परापि मुहुर्मुहुरपाङ्गविक्षेपप्रचलिततरलतरता- रसारोदरं चक्षुर्मण्डलितचापेन भगवता कुसुमधन्वना बलान्नीयमानं चेन्द्रापीडपीडनयेव न शशाक निवारयितुम् | तेनैव क्षणेन तेनासन्नसखीकपोलसंक्रान्तेनर्यया रोमाञ्चभिद्यमान- कुँचतटनश्यत्प्रतिबिम्बेन विरहव्यथास्वेदाईवक्षःस्थलघटितशालभञ्जिका प्रतिमेन सपत्नीरोप- निमिषता दौर्भाग्यशोकमानन्दजलतिरोहितेनान्धता दुःखमभजत सा | मुहूर्तापगमे च ताम्बू- लदानोद्यतां मँहाश्वेता तामभाषत - 'सखि कादम्बरि, 'संप्रतिपन्नमेव सर्वाभिरस्माभिरयम- भिनवागतश्चन्द्रापीड आराधनीयः । तदस्मै तावदीयताम्' इत्युक्ता च किंचिद्विवर्तितावनमि- देशे नेत्रप्रान्तदेशे सप्रेम प्रेमसहितं यथा स्यात्तथा पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती | मधुकरेति । मधुकरभरेण भ्रमरभरेण पर्यस्तं पतितं च कर्णावतंसं समुत्क्षेपयन्त्युच्चभागेन नयन्ती | चामरेति । चामरं वालव्यजनं तस्य पवनेन वातेन या विधूतिः कम्पनं तेन पर्यस्ता पतिता यालकवल्लरी केशवहरी तामनुष्वज- माना स्थाने तां स्थापयन्ती । सात्विति । सा तु कादम्बरी सखीप्रेम्णा महता लेहेन गृहनिवासेन कृताप- राधेवानामयेनैव कुशलप्रश्नेनैव लज्जमाना त्रपां कुर्वाणा कृच्छ्रादिव कुशलमाचचक्ष आचख्यौ । तदेति । तस्मिन्काले महाश्वेता दुःखेन समुपजातः शोको यस्या एवंविधापि कादम्बरी महाश्वेताया मुखं तस्य निरीक्षणं तस्मिंस्तत्परापि सोद्यमापि मुहुर्मुहुः । अपाङ्गेति । अपाङ्गस्य नेत्रप्रान्तस्य यो विक्षेपस्तेन प्रचलिता या तर लतरतारा तथा सारं कश्मलमुदरं मध्यं यस्यैवंविधं चक्षुर्मण्डलितचापेनारोपितकोदण्डेन भगवता कुसुमध- न्वना कंदर्पेण चन्द्रापीडस्य पीडनयेव बलानीयमानं निवारयितुं न शशाक न समर्था बभूव । । तैनेवेति । यस्मिन्क्षणे चक्षुर्निवारयितुं न समर्था तेनैव क्षणेन सा कादम्बरी तेन चन्द्रापीडेन कृत्वा यः सपत्नीरोषस्त स्मात्तथा निमिषता पक्षमपातस्तदेव दौर्भाग्यं तेन यः शोकः, अथ चानन्दजलं हर्षाश्रुजलं तेन तिरोहितेना- .च्छादितेनान्धतादुःखमभजदप्रापत् । कीदृशेन तेन । आसन्नेति । आसन्ना समीपवर्तिनी या सखी तस्याः कपोलो गल्लात्परः प्रदेशस्तन्त्र संकान्तेन प्रतिविम्बितेन । इदं च सपत्नीरोपनिमित्तम् । यद्यस्यां संक्रान्तस्तहींयमेव सपत्नी भविष्यतीति शङ्कया सपत्नीरोषः सपत्नीविषयको रोषस्तस्मात् । पुनः कीदृशेन | मय्यासक्तः क्वान्यत्र सं- क्रान्त इतीर्ण्यया ये रोमाञ्चास्तैर्भिद्यमानं यत्कुचतटं तस्मिन्रोमाञ्चप्रतिवन्धवशादेव नश्यत्प्रतिबिम्बो यस्य स तेन । इदं च शोकोत्पत्तिकारणम् | विरहेति | विरहस्य वियोगस्य या व्यथा तथा यः स्वेदः श्रमजलं तेनार्द्रं यद्वक्ष:- स्थलं भुजान्तरं तत्र घटिता शालभञ्जिकायाः प्रतिमा प्रतिबिम्बं यस्मिन्स तेन । इदं चानन्दाथुनिपाते कार- णम् । सेति । सा महाश्वेता मुहूर्तापगमे घटिकाद्वयानन्तरं ताम्वूलदानोद्यतां नागवल्ली दलवितरणे विहितोद्य-