पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ कादम्बरी वेष्वदृश्यत चन्द्रापीडः । तथा हि । सिञ्जमणिनूपुरपुटेन भुवमालिखतानाहूत इव चरण नखेषु निपपात | दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत इव स्तनाभ्यन्तरे समदृश्यत | विकचकुवलयदामदीर्घया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यत | सर्वासामेव च तदा तासां कन्यकानां तिर्थक्पश्यन्तीनां तं कुतूहलापाङ्गचुम्बिन्या दृष्टया निर्गन्तुकामा इव कर्ण- पूरमधुकरैः समं बभ्रमुस्तरलास्तारका | कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद् । संसंभ्रमं परिजनोपनीतायां च शयनशिरोभागनिवेशितायां धवलांशुकप्र- च्छदपटायां हेमपादाङ्कितायां पीठिकायां चन्द्रापीड : समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्त हस्त दत्तशब्द निवारणसंज्ञा : प्रतीहार्यो वेणुर- वान्वीणाघोषान्गीतध्वनीन्मागधीजयशब्दांश्च सर्वतो निवारयांचक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्यङ्कमारुरोह | चन्द्रापीडस्यापि कादम्बर्या: सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविश्र- म्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभर- - वलोक्यत । जनैरिति शेषः । कीदृशेष्ववयवेषु । स्रवत्क्षरद्यत्स्वेदजलं तेन धौतं क्षालितं लावण्यं लवणिमा तेन निर्मलेषु विमलेषु । कया | स्तम्भेति । स्तम्भेषु स्थूणासु संक्रान्तानि प्रतिविम्बितानि यानि प्रतिदि- म्वानि तस्य भावस्तत्ता तया । एतदेव दर्शयन्नाह — तथा हीति | सिञ्जशब्दं कुर्वन्यन्मणिनूपुरपुटं तेन भुवं पृथ्वीमालिखतालेखं कुर्वताङ्गुष्ठेनाहूत इव निमन्त्रित इव चरणनखेषु निपपात | दर्शनेति । दर्शनार्थ मतिरभसप्रभावितेनातिवेगोचलितेन हृदयेन गत्वा स्तनाभ्यन्तरेण कुचयोर्मध्य आनीत इव समदृश्यत समव- लोक्यत । जनैरिति शेषः । विकचेति | विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां दाम त्र क्तद्वद्दीर्घयायतया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यतादृश्यत | तत्तदवयवेषु तत्तत्प्रतिबिम्बमाश्रित्यै- तदुक्तम् । तासामिति । अपाङ्गचुम्विन्या दृष्टया कुतूहलात्तं तिर्यक्पश्यन्तीनां सर्वासामेव तदा तासां क न्यकानां निर्गन्तुकामा इव बहिर्गमनोत्सुका इव तरलाः कम्प्रास्तारकाः कनीनिकाः कर्णपूरमधुकरैः समं बभ्र मुर्भमणं चक्रुः | कादम्बरीति | कादम्बरी तु सविभ्रमं सविलासं कृतः प्रणामो यया सैवंविधा महाश्वेतया सह पर्यके पल्यङ्के निषसादोपविवेश | सममिति | ससंभ्रमं यथा स्तात्तथा परिजनेन परिच्छदेनोपनीतायां प्रापितायां शयनस्य पल्यङ्कस्य शिरोभागे निवेशितायां स्थापितायां धवलांशुकरय प्रच्छदपट उत्तरपटो यस्या- मेवंविधायां हेमपादाङ्कितायां सुवर्णपादचिह्नितायां पीठिकायां चन्द्रापीडः समुपाविशदा से दिवान् | महेति । महाश्वेताया अनुरोधेन प्रतिवन्धेन । विदितेति | विदितो ज्ञातः कादम्बर्यांश्चित्ताभिप्रायो याभिस्ताः । संवृ तेति । संवृतं पिहितं यन्मुखं तत्र न्यस्तो यो हस्तस्तेन दत्ता ज्ञापिताः शब्दनिवारणसंज्ञा याभिरेवंविधा प्र तीहार्यो द्वाररक्षाविधायिन्यो वेणुरवान्वंशशब्दान्वीणाघोषान्वल्ल की शब्दान्गीतध्वनीन्गेयनादान्मागधीनां माग- े