पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३४७ .9 शित्वं च लक्ष्म्याः, सद्भर्तृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफ- लतां च मानुषीलोचनानाम्, एकस्थानसमागमं च सर्वकलानाम् ऐश्वर्य च सौभाग्यस्य, अग्राम्यतां च मनुष्याणां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुवारं प्रिय- सखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्या विश्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्कां यथा मयि तथालापि त्रैवर्तितव्यम् । एष ते मित्रं च वान्ध- वश्च परिजनश्च' इत्यावेदिते तया चन्द्रापीड : प्रणाममकरोत् । कृतप्रणामं च तं तदा काद- म्वर्यास्तिर्यग्विलोकयन्त्याः सस्नेहमतिदीर्घलोचैनयोरपाङ्गभागं गच्छतस्तौरतारकस्य लोच- नस्य श्रमसलिललवविसर इवानन्दबाष्पजलविन्दुनिकरो निपपात | त्वरितमभित्रस्थितस्य हृदयस्य धूलिरिव सुधाधवला स्मितज्योत्स्ना विससार | संमान्यतामयं हृदयरुचिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका भ्रूलता समुन्ननाम | अङ्गुलिविवरविनिःसृतमरकताङ्गुली - यकलेखो विभ्रमगृहीतताम्बूलबीटिका इव करो जम्भारम्भमन्थरं मुखमुत्ससर्प । स्रवत्स्खे- दजलधौतलावण्यनिर्मलेपु चास्याः स्तम्भसंक्रान्तप्रतिबिम्बतया संचरन्मूर्तिर्मकरकेतुरिवावय- प्येतत्सर्वं ज्ञास्यसीत्यन्वयः । एतदेव प्रदर्शयन्नाह – निर्माणति । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचना- चातुर्यम् | रूपस्य चेति । रूपय सौन्दर्यस्य निःसपत्नतां निर्विपक्षताम् । लक्ष्म्याः श्रियः स्थाने योग्य स्थलेऽभिनिवेशित्वं स्थायित्वम् । पृथिव्या वसुधायाः सच्छोभनो भर्ता पतिस्तस्य भावस्तत्ता तस्याः सुखं सातम् । मर्त्यलोकस्य मनुष्यलोकस्य सुरलोकादतिरिक्ततामाधिक्यताम् । मानुषीलोचनांनां स्त्रीनेत्राणां सफलतां साफल्यं च । सर्वकालानां समग्र विज्ञानानामेकस्मिन् स्थाने समागमं संवन्धं च | सौभाग्यस्य सुभगताया ऐश्वर्यं प्रभुत्वम् । तथा मनुष्याणां मानुषाणामग्राम्यतां नागरिकतां ज्ञास्यसि इति हेतोर्मया बलादानीतः अयम् । कथितेति । अस्य चन्द्रापीडस्य मया बहुवारमनेकवारं प्रियसखी कथिता निवेदिता । तदिति हेत्वर्थे | अपूर्वमभिनवं दर्शनं यस्यैवंविधोऽयमिति कृत्वा लज्जां त्रपां विमुच्य विहाय । अन्विति । अनु- पजातः परिचयो यस्यैवंविध इति कृत्वाविश्रम्भतामविश्वासतामुसृज्य त्यक्त्वा । अविज्ञातमविदितं शीलं स्वभावो यस्येति कृत्वा शङ्कामपहाय दूरीकृत्य यथा मयि तथात्राप्यस्मिन्नपि प्रवर्तितव्यम् । एष चन्द्रापीडस्ते तव मित्रं च बान्धवः परिजनश्च । तथा महाश्वेतयेत्या वेदिते निवेदिते सति चन्द्रापीडः प्रणामं नमस्कारम- करोत् । तदा कृतप्रणामं विहितनमस्कारं च तं विलोकयन्त्याः पश्यन्त्याः कादम्बर्या: सस्नेहं यथा स्यात्तथा- तिदीर्घयोर्लोचनयोरपानभागं निर्याणदेशं गच्छतो व्रजतस्तारा मनोहरा तारका कनीनिका यस्मिन्नेतादृशस्य लोचनस्य श्रमसलिलस्य खेदप्रभवपानीयस्य लवास्तेषां विसर इव समूह इव । आनन्दः प्रमोदस्तस्माद्यद्वा- प्पजलं तस्य बिन्दुनिकरो निपपातापतत् | त्वरितमिति । त्वरितं शीघ्रमभिप्रस्थितस्य चलितस हृदयस्य धुलिरिव रेणुरिव सुधामृतं तद्वद्धवला शुभ्रा । स्मितमीषद्धसितं तस्य ज्योत्स्ना चन्द्रिका विससार प्रसृता बभूव ।