३४६ कादम्बरी । टमभूत् । तदा च कादम्बरीं विशतो मन्मथस्यापि मन्मथ इवाभूद्वितीयः, तया सह यो विवेश चन्द्रापीडहृदयम् । तथाहि असावपि तस्या रत्नाभरणधु तिमपि तिरोधानममंस्त, हृदय प्रवेशमपि परिग्रहमगणयत्, भूषणरवमपि संभाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसाद मचिन्तयत्, दे- हप्रभासंपर्कमपि सुरतसमागमसुखमकल्पयत् । कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महा- श्वेतां स्नेहनिर्भरं चिरदर्शन जांतोत्कण्ठं सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत्-‘सखि कादम्बरि, भारते वर्षे राजानेकवरतुरगखुरमुखोल्लेखदत्त चतुःसमुद्रमुद्रो र क्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रान्तविश्वे॑विश्वंभरापीडञ्चन्द्रा- पीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्का- रणवन्धुतां गतः । परित्यक्तसकलासङ्गनिष्ठुरामपि मे सँविशेषस्वभावसरलैर्गुणैराकृष्य चित्त- वृत्तं वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्त मित्रमकृत्रिमहृदयो विदुग्धजनः । यतो दृष्ट्वा चेममहमिव त्वमपि निर्माणकौशलं प्रजापतेः, नि:सपत्नतां च रूपस्य, स्थानाभिनिवे- ज्ञापन उद्यता या प्रतीहारी तस्या निवारणं कपटं कैतवमभूत् । प्रतीहारी निवेदितवस्तुप्रतिषेधद्वारा करकम्पनमा चरितमिति सखीभिरज्ञायीति भावः । नायिकाक्रमेण तानुक्त्वा नायकक्रमेणाप्याह - तदा चेति । यदा काद- म्वरीं चन्द्रापीडविषयको मन्मथः प्रविष्टस्तदा तस्य चन्द्रापीडविषयकस्य कादम्बरीहृदय प्रविष्टस्य मन्मथस्यापि प्रत्यर्थंभूतो द्वितीय इव मन्मथोऽभूत् । यथा कादम्बर्यां चन्द्रापीडविषयको मन्मथः प्रविष्टस्तथैव कादम्बरीवि- षयकोऽपि मन्मथश्चन्द्रापीडहृदयं प्रविवेशेत्यर्थः । तदेवाह - तथा सहेति । यस्तया कादम्वर्या सह चन्द्रापी- डहृदयं विवेश प्रविष्टवान् । तदेव दर्शयति — तथा हीति । असावपि चन्द्रापीडोsपि तस्याः कादम्बर्या रत्ना भरणानां मणिखचितभूपणानां द्युतिमपि कान्तिमपि तिरोधानमन्तर्धानं साकल्येनावलोकन प्रतिबन्धकममंस्त ज्ञातवान् । यमप्युत्कण्ठानिर्वृत्त्य तिशयप्रतिपादनपरः प्रपञ्चः | हृदय प्रवेशमपि परिग्रहमावासस्थानमगणयत् । तस्या भूषणरवमपि संभाषणं जल्पनममन्यत । सर्वेन्द्रियाहरणमपि समग्रकरणाकर्षणमपि प्रसादमचिन्तयत् । देहप्रभायाः शरीरकान्तेः संपर्कमपि संवन्धमपि सुरतसमागम सुखमकल्पयन्मैथुन सुख सदृशमगणयत् । काद- म्बरी विति । कादम्बरी तु कृच्छ्रादिव कष्टादिव दत्तानि कतिपयानि कियन्ति पदानि यया सा महाश्वेतां चिरकालेन यद्दर्शनं तेन जातोत्कण्ठा यस्याः सा तां स्नेहनिर्भरं यथा स्यात्तथा सोत्कण्ठं कण्ठे जग्राह कण्ठग्राहं गृहीतवती । महाश्वेतापि दृढतरं दत्तः कण्ठग्रहो यया सैवंविधा तां कादम्बरीमवादीदवोचत् । किमुवाचेत्याह- सखीति । हे सखि कादम्बरि, भारते वर्षे भरतक्षेत्रेऽनेके ये वराः श्रेष्ठास्तुरगा अश्वास्तेषां खुरमुखानामुल्लेखा उत्कर्षास्तैर्दत्ताश्चतुःसमुद्रावधिमुद्रा अङ्को येन सः | रक्षिता प्रजायाः पीडा बाधा येनैवंभूतस्तारापीडो नाम रा जास्ति । तस्य राज्ञः । निजेति । निजावात्मीयौ यौ भुजौ तावेव दृढत्वाच्छिलास्तम्भौ तत्र विश्रान्ता सुखेन स्थिता या विश्वविश्वंभरा समग्रवसुधा सैव पीडोत्तंसो भूषणं यस्य सः । 'पीडार्तिर्मदनोत्तंसकृपासु' इत्यनेकार्थः । f
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४४
दिखावट