पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३४५ नूनमयं स केयूरकेणावेदित इति चिन्तयन्त्या रूपातिशय विलोकन विस्मयस्मेरं निश्चलान- बद्धलक्षं चक्षुस्तस्मिन्सुचिरं पपात | लोचनप्रभाधवलितस्तु कादम्बरीदर्शन विह्वलोऽचल इव तैत्क्षणमराजत चन्द्रापीडः | दृष्ट्वा च प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ । अथ तस्याः कुसुमायुव एव स्वेदमजनयत्, ससंभ्रमोत्थानश्रमो व्यपदेशोऽभ- वत् । उरुकम्प एवं गतिं रुरोध, नूपुरवाकृष्टहंसमण्डलम़पयशो लेभे । 'निःश्वासप्रवृत्ति- रेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तः प्रविष्टेचन्द्रापीडस्पर्शलोभेनैव निपपात हृदये हस्तः, स एव करः स्तनावरणव्याजो बभूव । आनन्द एवाश्रुजलमपातयत्, चलितकर्णावतंसकुसुमरजो व्याजमासीत् । लज्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालि- वृन्दं द्वारतामगात् । मदनशरप्रथमप्रहारवेदनैव सीत्कारमकरोत् कुसुमप्रकरकेतकी कण्ट- कक्षति: साधारणतामवाप । वेपथुरेव करतलमकम्पयत्, निवेदनोद्यतप्रतीहारीनिवारणं कप- । .5 संलग्नं वभूव । तदेति । तस्मिन्काले तस्या अपि कादम्बर्या अपि नूनं निश्चितं पूर्व केयूरकेण मदनुचरेणावेदितो निवेदितः सोऽयमिति चिन्तयन्या भ्यायन्या रूपातिशय विलोकने यो विस्मयश्चित्रं तेन स्मेरं विनिद्रं निश्चलं निबद्धं लक्षं येनैवंविधं चक्षुस्तमिन्द्रापीडे सुचिरं पपात | लोचनेति । लोचनप्रभा नेत्रकान्तिः । कादम्बर्या इति शेषः । तथा धवलितः शुश्रीकृतः कादम्वर्या दर्शनं सम्यक्तया विलोकनं तत्र विह्वलो व्याकु- लोऽचल इव पर्वत इव तत्क्षणं तस्मिन्समये चन्द्रापीडोडराजताशोभत । तत्र निश्चलत्वसाम्यात्पर्वतानुमान- मित्यर्थः । एवमुभयोर्लोचनविषयतां प्राप्तयोर्विशेषोक्त्या विभावनया वा व्यभिचारिभावानुभावाश्च वक्तुमुपक्रम- ते-दृष्ट्वेति । दृष्ट्वा विलोक्य प्रथममादौ रोमोद्गमो रोमाश्चः समभूत् । तदुक्तमन्यत्र – 'अपूर्वप्रियदर्शने | वघ्नन्न- जेषु रोमाः' इति । ततो भूपणरव आभरणसिञ्जितम् । तदनु तदनन्तरं कादम्बरी समुत्तस्थावुत्थितवती । अ- येति समुत्थानानन्तरं तस्याः कादम्बर्याः | कुसुमायुध एव स्वेदमजनयत् । सर्वोऽप्ययं प्रपञ्चश्चन्द्रापीडविष- यकः कादम्बर्या मनस्युत्कण्ठानिवृत्त्यतिशयप्रतिपादनपरश्च । एतदेव स्पष्टयन्नाह - ससंभ्रमेति । संभ्रमेण सह वर्तमानं ससंभ्रमं यदुत्थानं तस्माद्यः श्रमः खेदः स एव व्यपदेशो मिषं तेनाभवत् । ससंभ्रमोत्थानश्रमादेव मम स्वेदोऽभूदिति व्याजं कृतवतीत्यर्थः । उरुकम्प एवं गतिं गमनं रुरोध रुन्धितवान् । नूपुरे पादकटके तयो रवः शब्दस्तेनाकृष्टमा कर्पितं यद्धंसमण्डनं तदपयशोऽपकीर्ति लेभे प्राप मद्दतिनिरोधकृत् हंसमण्डलमिति सखीजने प्वपभ्राजनां कृतवतीयर्थः । निःश्वासेति | निःश्वासानामेतनानां प्रवृत्तिरेव प्रवर्तनमेवांशुकं वस्त्रं चलं कम्प्रे चकार | चामरेति | चामरापिलो वालव्यजनपवनो निमित्ततां कारणतां ययौ । चामरानिलेन मदंशुकं चा- लितमित्युक्तवतीत्यर्थः । अन्तरिति । अन्तः प्रविष्टो यश्चन्द्रापीडरतस्य परीलोभेनैव हृदये हस्तः करो निप- पात निपतितो वभूव । स एवेति । स एव करो हस्तः स्तनावरणस्य कुचाच्छादनस्य व्याजो मिषं बभूव । रखनावरणार्थ मया हस्तो दत्त इत्यन्येषां चेष्टया ज्ञापितवतीत्यर्थः । आनन्द एवेति ।आनन्द एव प्रमोद एवाश्रु-