पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३३५ L । 'ज्ञानेषु माल्यग्रन्थनैमसुकुमारजनव्यापार : देवताप्रमाणेषु मध्यभागभङ्गो नातिविस्मयकरः । तस्य चैवंविधस्य किंचिद॒द्भ्यन्तरमतिक्रम्येतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्नस्य परि- जनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि — 'लवलिके, कल्पय केतकी धूलिभि- लेवलीलतालवालमण्डलानि | सागैरिके, गन्धोदकदीर्घिकासु विकिर रत्नवालुकाम् | मृणा- लिके, कृत्रिमकमलिनीपु कुङ्कुमरेणुमुष्टिभिश्रय यन्त्रचक्रवाक मिथुनानि । मँकरिके, कर्पू- रपल्लवर सेनाधिवासय गन्धपात्राणि | रजनिके, तमालवीथिकान्धकारेषु निधेहि मणिप्रदी- पान् । कुमुदिके, स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानि । निपुणिके, लिख मर्णिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके, परासृश कनकसंमोर्जनीभिः कद- लीगृहमरकतवेदिकम् । केर्सेरिके, सिश्च मदिरारसेन बकुलकुसुममालागृहाणि | मालतिके, पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् | नलिनिके, पायय कमलमधुरसं भवन- कलहंसान् । कदलिके, नय धारागृहं गृहमयूरान् । कमलिनिके, प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् । चैतलतिके, देहि पञ्जरपुंस्कोकिलेभ्यश्चतकलिकाङ्कुराहारम् | पल्लविके, भोजय मरिचाग्रपल्लवदुलानि भवनहारीतान् | लवङ्गिके, निचिक्षिप चकोरपञ्जरेषु पिप्प - ध्वनितम् । पुनः सौकुमार्यातिशयमाह- कन्यकेति । कन्यकाविज्ञानेषु कुमारिकाणां कलासु माल्यग्रथनमसुकु मारजनव्यापारः | अतिकर्कशजनविधेयमित्यर्थः । एतेन माल्यापेक्षयापि सौकुमार्य व्यज्यते । देवतेति । देव तानां प्रणामेषु नमस्क्रियासु | मध्यभागस्यातिसूक्ष्मत्वात् । भङ्गो द्वैधीभावो न भवति सोऽतिविस्मय कर आश्चर्यकरः । एतेन मध्यभागस्य स्वारसिकं कृशत्वं व्यज्यते । तदनन्तरं स चन्द्रापीड: किंचिदभ्यन्तरं मध्यभागमतिक्रम्येतश्चेतश्च परिभ्रमतः पर्यटत एवं विधस्य तस्य कादम्बरी प्रत्यासन्नस्य कुमारिकासमीपवर्तिनः परिजनस्य परिवारस्यातिमनोहरांस्तांस्तानालापान्संलापाञ्शुश्रा. वाकर्णयामास । एतदेव दर्शयति — तथा हीति | हे लवालिके, केतकी धूलिभिः केतकीपरागैर्लवलीलताया आलवालमण्डलान्यावालमण्डलानि कल्पय प्रणय | हे सागरिके, गन्धोदकं सुगन्धजलं तस्य दीर्घिकासु वापीषु रत्नवालुकां विकिर विक्षिप | हे मृणालिके, कृत्रिमकमलिनीषु यन्त्रचक्रवाक मिथुनानि कुङ्कुमरेणुमुष्टिभिश्छु रंयाच्छोटय | हे मकरिके, कर्पूरपलवरसेन गन्धपात्राण्यधिवासय सुगन्धीकुरु | हे रजनिके, तमालवीथि- कानामन्धकारेषु मणिप्रदीपान्निधेहि स्थापय | हे कुमुदिके, शकुनिकुलरक्षणाय पक्षिसमूहनिवारणाय मुक्ता- जालैर्दा डिमीफलानि स्थगयाच्छादय । हे निपुणिके, मणिशालभञ्जिकास्तनेषु रत्नपुत्रिकाकुचेषु कुङ्कुमरसपत्रभ- झांल्लिख लिपीकुरु । हे उत्पलिके, कनकसंमार्जनीभिः सुवर्णवहुरीभिः कदलीगृहमरकतवेदिकां परामृश संमा- र्जय | हे केसरिके, मदिरारसेन कादम्बरीद्रवेण बकुलकुसुममालागृहाणि सिञ्च सेकं कुरु | हे मालतिके, सिन्दूररे- णुना नागभूषणधूल्या कामदेवगृहदन्तवलभिकां पाटलय श्वेतरक्तीकुरु | हे नलिनिके, कमलमधुरसं भ