पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । लीदैलशकलानि | मधुकरिके, विरचय कुसुमाभरणकानि | मयूरिके, संगीतशालायां विस- जय किंनरमिथुनानि । कन्दलिके, समारोहय क्रीडापर्वतशिखरं जीवंजीव मिथुनानि | हरि- णिके, देहि पञ्जरशुकसारिकाणामुपदेशम्' इत्येतान्यन्यानि च परिहासजल्पितान्यश्रौषीत् । तथाहि — 'चामरिके, मिथ्यामुग्धतां प्रकटयन्ती कमभिसंधातुमिच्छसि | अयि यौवनविला. सैरुन्मत्तीकृते, विज्ञातासिया त्वं स्तनकलशभारावनम्यमानमूर्तिर्मणिस्तम्भमयूरानोलम्बसे । परिहासकाङ्क्षणि, रत्नभित्तिपतितमात्मप्रेंतिविम्बमालपसि | पवनहृतोत्तरीयांशुके, हारप्रभा - मायासितकरतलाकैलयसि । मणिकुट्टिमेपूपहारकमलस्खलनभीते, निजमुखप्रतिबिम्बकानि परिहरसि | जालवातायनपतितपद्मरागीलोकं प्रति वालातपशङ्कया करतलमांतपत्रीकरोषि । खेदस्रस्तैहस्तगॅलितचमरा नखमणिमयूखकलापमाधुनोषि' इत्येतान्यन्यानि च शृण्वन्नेव कादम्बरीभवनमुपययौ । । , पिप्पलीदलानि प्रियाणीति ध्वनितम् । हे मधुकरिके, कुसुमानामाभरणकानि विभूषणानि विरचय रचनां कुरु | हे मयूरिके, संगीतशालायां नृत्यशालायां किंनरमिथुनानि तुरगवदनद्वन्द्वानि विसर्जय प्रेषय | हे कन्दलिके, क्रीडापर्वतशिखरं लीलाशिख रिसानुं जीवंजीव मिथुनानि विषदर्शनमृत्युकयुगलानि समारोहयारोहणं कारय | हे हरिणिके, पञ्जरशुकसारिकाणामुपदेशं हितशिक्षां देहि प्रयच्छ । इत्येतानि पूर्वोक्तान्यन्यानि चाग्रे वक्ष्यमाणानि परिहासजल्पितानि वचनान्यश्रौषीदाकर्णितवान् । एतदेव दर्शयति — तथाहीति | हे चामरिके, मिथ्या वृथा मुग्धतां मुग्धभावं प्रकटयन्ती प्रकाशयन्ती कमभिसंधातुं मिलितुमिच्छसि वाञ्छसि । बाह्यमुग्धत्वप्रक- टनेन स्वकीयं कार्यं कर्तुकामेत्यर्थः । अयीति कोमलामन्त्रणे | हे यौवनविला सैस्तारुण्य विभ्रमै रुन्मत्तीकृते ग्रथि- लीकृते, सा त्वं विज्ञाता विदितासि या स्तनकलशभारेणावनम्यमाना मूर्तिः शरीरं यस्या एवंविधा मणिभिर्नि र्मिता रचिता ये स्तम्भाः स्थूणास्तेषां मयूरान्कलापिन आलम्बस आलम्बनविपयीकरोपि | परीति । हे परि- हासकाङ्क्षिणि, रत्नभित्तिपतितं मणिकुड्यसंक्रान्तमात्मप्रतिबिम्बं स्वकीयं प्रतिरूपमालपसि परिभाषसे । एतेन स्वयमेव स्वस्य भाषणमुपहास हेतुरिति ध्वनितम् | पवनेति । पवनेन वायुनाहृतं गृहीत मुत्तरीयांशुकमुपरि- वस्त्रं यस्यास्तस्याः संबोधनं हे पवनहृतोत्तरीयांशुके, लज्जावशादतिशुभ्रत्व साम्याद्धारप्रभामेवा कलयस्युत्तरीयां- शुकत्वेन जानासि । अतएवायासितकरतला पुनःपुनस्तद्ब्रहणप्रयासेन परिश्रान्तहस्ततलेत्यर्थः । मणिकुडीति | मणिकुट्टिमेषूपहारार्थमुपचारार्थं कमलानि नलिनानि तेभ्यः स्खलनं चरणाभिघातस्तस्माद्भीता त्रस्ता तस्याः संबो- धनं हे उपहारकमलस्खलनभीत, निजमुखप्रतिविम्वकानि स्वाननप्रतिच्छायानि परिहरसि त्यजसि । एतेन • निजात्मप्रतिविम्बान्येव कमलभ्रान्त्या त्यजसीति ध्वनितम् | जालेति । जालरूपो यो वातायनो गवाक्षस्तत्र पतितं लग्नं पद्मरागो लोहितकमणिस्तस्यालोकं प्रकाशं प्रति वालो नवीनो य आतपः सूर्यालोकस्तस्य शङ्कया ।