३३४ कादम्बरी । .9 एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासा एवा- धिवासगन्धयुक्तयः, अधरगुतिरेव कुंकुममुखानुलेपनम्, आलापा एव तन्त्रीनिनादाः, भुज- लता एव चम्पर्कवैकक्ष्यमालाः, करतलान्येव लीला कमलानि, स्तना एव दर्पणाः, निजदे- हप्रभैवांशुकावगुण्ठनम् जघनस्थलान्येव विलासमणिशिलातलानि, कोमलाङ्गुलिराग एक चरणालक्तरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः । यत्र चालक्तरसोऽपि चरणातिभारः, बकुलमालिका मेखलाकलनमपि गमनविघ्नकरम्, अङ्गरागगौरवमप्यधिकश्वा- सनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलय विवृतिरपि करतलविधुति- हेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरकमलतरलमधुकरपक्षपवनोऽप्यायासकरः । तथा च यत्र सखी देश नेष्वकृतह स्तावलम्बन मुस्थनमतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः कुसुमावचयेषु द्वितीयपुष्पग्रहणमध्ययुवतिजनोचितम्, कन्यकावि- 7 - । एवं मुखं वक्रं तस्य प्रक्षालनं धावनम् । अत्र स्वच्छत्वकरणसाम्येन जलालोकयोरुपमानोपमेयभावः । कर्णा- न्तत्वरूपव्यङ्ग्यसाम्येनाह - लोचनेति । लोचनान्येव नेत्राण्येव कर्णोत्पलानि कर्णावतंसानि | पाण्डुरत्वसा- म्येनाह – हसितेति । हसितं स्मितं तस्य छवयः कान्तय एवाङ्गरागा विलेपनानि । निश्वासेति । निश्वासाः पवनास्त एवाधिवासे वस्त्रादीनां संस्कारकरणे गन्धयुक्तयः सुगन्धीकरणप्रकाराः | रक्तत्वसाम्येनाह - अधरेति । अधरो दन्तच्छदस्तस्य द्युतिरेव कुक्कुमं तेन मुखस्य वऋस्यानुलेपनम् । मञ्जुलत्वसाम्येनाह आलापा इति । आलापा एव संभाषणान्येव तन्त्रीनिनादा वीणाध्वनयः | मृदुत्वसाम्येनाह – भुजेति । भुजलता एव चम्पको हेमपुष्पकस्तस्य वैकक्ष्यमाला उत्तरासङ्गसजः । करेति । करतलान्येव लीलाकमलानि क्रीडापङ्कजानि । निर्मलत्वसाम्येनाह -स्तनेति । खना एव दर्पणा मुकुराः । निचितत्वसाम्येनाह–निजेति। निजदेहप्रभैव स्वशरीरदीप्तिरेवांशुक्रेन वस्त्रेणावगुण्ठंन माच्छादनम् । विस्त रातिशयादाह - जघनेति । जघन- स्थलान्येव कट्याः पुरोभागप्रदेश एव विलासा लीलाविशेषास्तेषां मणिशिलातलानि । कोमलेति । कोम- ला या अङ्गुल्यस्तासां राग एव चरणयोः पादयोरलक्तकरसो यावकरसः । नखेति । नसा एव मणयः, नख- निष्टाभरणमणयो वा तेषां मरीचय एव दीवितय एव कुट्टिमेषु वद्धभूमिषूपहारकुसुमानां प्रकराः समूहाः । यत्र चेति । यत्र कन्यकासमुदायेऽलक्तरसोऽपि यावकरसोऽपि चरणयोः पादयोरतिभारो व्यर्थः । स्वत एव चरण- योरारुण्यादिति भावः । बकुलेति । बकुलमालिका केसरस्रजो मेखला रसना तस्या आकलनमपि धारणमपि गमनविघ्नकरं गतिप्रतिबन्धकम् । सौकुमार्यातिशयादिति भावः । अङ्गेति । अङ्गरागो विलेपनं तस्य गौरवम- प्यधिकश्वासनिमित्तमतिप्रयासकारणम् । अङ्गरागेभ्यः शरीररागस्य सातिशयत्वात् । अंशुकेति । अंशुकभारो- sपि वस्त्रभारोऽपि ग्लानिकारणम् । सातिशयदेहप्रभावरणरूपत्वात् । मङ्गलेति । मङ्गलार्थं प्रतिसरवलयं हस्तसूत्रवलयं तस्य विधृतिरपि धारणमपि करतलस्य हस्ततलस्य विधुतिः कम्पनं तन्मात्र हेतुः । स्वतःसुन्दरत्वा- च्छ्रेयस्करत्वाच मणिबन्धस्य । अवेति । अवतंसकसमानां धारणमपि म कम क 1
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३२
दिखावट