पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३३३ कार्मुकबलांनीव प्रचलितानि शिरेसिजकलापान्धकारैर्बहुलपक्षप्रदोषसार्थानिव संबन्नतः, 'स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान्संचरतः, श्वसितानिलपरिमलैर्मलयमारु- तानिव परिभ्रमतः, कपोलमण्डलालोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि, करतलरागेण रक्तकमलवनवर्पिणमिव जीवलोकम् कैररुहस्फुरणेन कुसुमायुधशरसहस्रैरिव संछादितदि- गन्तराणि, आभरणकिरणेन्द्रायुधजालकै रुड्डीयमानानीव भुवनमयूरवृन्दानि यौवनविकारै- रुत्पाद्यमानानीव मन्मथसहस्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखी- हस्तावलम्बेपु पाणिग्रहणानि, वेणुवाद्येपु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कैन्दुकक्रीडासु करतलप्रहारान् भुवनलतासेककलशकण्ठेषु भुजलतापरिष्वङ्गान्, लीला- दोलासु नितम्बस्तनप्रेहितानि ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, बैंकुलवि- टपेपु मधुगण्डूपप्रचारान् अशोकतरुताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेपु सीत्कारानतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् । यत्र च कन्यकाजनस्य कपोलतलालोक - , STIFT! , , वोत्करूपाणीव । अत्र वक्रत्वसाम्यादुपमानोपमेयभावः | शिरसीति | शिरसिजाः केशास्तेषां कलापाः समु दायास्तद्रूपाण्यन्धकाराणि तैर्बहुलपक्षाणां कृष्णपक्षाणां प्रदोपरााथ न्यामिनीमुख समूहानसंवघ्नत इव संग्रश्नत इव । एतेन केशकलापेषु श्यामतातिशयो द्योते | स्मितेति । स्मित हास्यं तस्य प्रभाभिः कान्तिभिरुत्फु लकुसुमधवलान्वसन्तदिवसान्संचरत इव व्रजत इव | श्वसितेति । श्वसितानिलस्य वासवायोः परिमलेरा- मोदर्मलयमारुतान्परिभ्रमत इव संचरत इब | कपोलेति । गात्परप्रदेशाः कपोलास्तेषां मण्डलं समूहस्त- स्यालोकेंः प्रकाशः स्फुरितानि माणिक्यदर्पणराहस्राणीव रत्नादर्शदशशतानीव | एतेन कपोलयोः खच्छताति- शयो दर्शितः । कर इति । करतलराणेण रक्तकमलवनवर्पर्ण जीवलोकमिव । कररुहा नखास्तेषां स्फुरणेन विद्योतनेन कुसुमायुधशरसहस्रैः संछादितदिगन्तराण्याच्छादितककुवन्तराणि | आभरणति | आभरणकि- रणान्येवेन्द्रायुधजालकानि तरुडीयमानानीव व्योनि व्रजमानानीव भुवनमयूरवृन्दानि गृहकलापिमण्डलानि । यौवनेति । यौवनविकारैतारुण्य विकृतिभिरुत्पाद्यमानानीव विधीयमानानीव मन्मथसहस्राणि मनोभवसह- स्राणि । उचितेति । उचितो योग्यो यो व्यापारस्तव्यपदेशेन तन्मिपेण कुमारिकाणामतिरिक्त मद्भुतं सुरतं मैथुनमभ्यस्यन्तीनामिवाम्यासं कुर्वन्तीनामिव तत्तदपश्यत् । तत्र सुरतसाधर्म्यमाह - सखीति | सखीनामा- लीनां हस्तावलम्बेषु करावलम्वेपु पाणिग्रहणानि हरतगृहनानि । वेणुवाद्येषु वंशातोधपु चुम्वनव्यतिकरान्मुख- स्पर्शनवृत्तान्तान् | वीणासु वाहकी कररुहव्यापारासरव्यवहारान् | कन्दुकक्रीडा खन्दुकलीलासु करतलप्र- हारान्हस्ततलप्रघातान् । भुवनेति । भुवनलतानां गृहवीनां सेकार्थं कलशकण्ठेषु कुम्भनिगरणेषु भुजल- तापरिष्वज्ञान्वाहुवलचालिङ्गनान् । लीलादोलामु काडाप्रेङ्खासु नितम्ब आरोहः स्तनः कुचस्तयोः प्रेङ्कितानि 1 r fifty ATTU