पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । , प्रजापतिनिर्माणम्, अनेक कल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमाकुर्वतेव भुवनान्तरालं बहुलप्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव चन्द्र- मण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्सयेव घटितसंनिवेशम्, आभरणप्रभामिरिव नि- पादित दिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविला सैरिवोत्पादितावयवम्, रति- षिलसितैरिव रैचितसंचयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसक- लजनप्रैवेशम्, शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमय मित्र, कुतूहलमयमिव, आश्चर्यमिव, सौंकुमार्यमयमिव, कुमार: कुमारीपुराभ्यन्तरं ददर्श । अति- समन्तादानन द्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपा- ङ्गविक्षेपैश्चलितकुवलय वनमयीमिव क्रियमाणामवनीम् अँतिनिभृतधूलता विभ्रमैः काम- बहलतया च तस्य कन्यकाज ३३२ , 2 तस्य पञ्चममवतारमिव । अपरमिति | पुरुषे द्वेषो विद्यते यस्यैवंभूतो यः प्रजापतिः ब्रह्मा तस्यापरमन्य- ग्निर्माणमिव । पुरुषद्वेषिविशेषणेन केवलं स्त्री निर्माणकर्तृत्वमेव सूचितम् । अनेकेति । अनेके ये कल्पा युगान्तास्त- त्र कल्पना रचना | स्त्रीणामिति शेषः । तदर्थमङ्गनाकोशं स्त्रीभाण्डागारमुत्पाद्य विधाय स्थापितमिव रक्षितमिव । एतेन युगान्तरे स्त्रीनिर्माणप्रयासाभाव इति सूचितम् । पुनः कीदृशम् | अतिविस्तारिणा युवतिजनानां लावण्यं सौन्दर्यातिशयस्तस्य या प्रभा कान्तिस्तस्याः पूर उत्कर्षस्तेन । अथ च बहुला या प्रभा कान्तिस्तद्वार्पणी मरकत - मणिमयेनाश्मगर्भमणिप्रचुरेण । अर्थांन्निर्माणेन | सर्वतः समन्तात्परिगततया व्याप्ततया तेजोमयमिव कान्ति- समूहमयमिव | अथ युवतिलावण्यं विशेषयन्नाह —– अमृतेति । अमृतरसस्य पीयूषद्रवस्य यो विसरः समूह- स्तेन दिवसं दिनं सिञ्चतेव सेकयां कुर्वतेव लावितं क्षालितं दिगन्तरं येन तेन । किं कुर्वता लावण्यप्रभापूरेण भुवनान्तरालं विष्टपान्तरालमाकुर्वतेवाशुष्कतां विदधतेव । अत्र च मरकतमणे: श्यामत्वे लावण्यप्रभापू- रस्य च पाण्डुरत्वे क्रमं विहाय यथोचितमुत्प्रेक्षते – चन्द्रेति । चन्द्रमण्डलसह सैनिर्मितं रचितं संस्थानमा- कृतिविशेषो यस्यैतादृशमिव । श्यामतासाम्यादिति भावः । पाण्डुरत्वेनाह – ज्योत्स्येति । ज्योत्स्नया चन्द्रि- कया घटितो निर्मितः संनिवेशः संस्थानं यस्य स एतादृशमिव | 'अमृतरस विश्रुतिर्वा साम्यम् | आभरणेति । आभरणप्रभाभिभूषण कान्तिभिर्निष्पादितं दिगन्तरं दिगवकाशं यस्मिन्नेतादृशमिव । एतेनाभरणानामतिशयो योतितः । विभ्रमैरिति । विभ्रमैसमुद्भवैः कृतं सर्वोपकरणं सर्वा सामग्री यस्मिन्नेतादृशामिव । यौवनेति । यौवन विलासैस्तारुण्य विलसितैरुत्पादिता अवयवा यस्मिन्नेतादृशामिव | रतीति | रतिः कामयोषित्तद्विलसितै रंचितः संचयः समूहो यस्मिन्नेतादृशमिव । मन्मथेति । मन्मथाचरितैः कंदपांचरणैः कल्पितोऽवकाशोऽव- गाहो यस्मिन्नेतादृशमिव । अन्विति । अनुरागेण प्रीयानुलिप्तः सकलजनप्रवेशो यस्मिन्नेवभूतमिव | शृङ्गारमय- t । सहार-