पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ कादम्बरी । दिगन्तराणि कुमुदवनानीव वर्षता, पुण्डरीकमयमिव दिवसं कुर्वता, कनकपट्टपृथुललाटेन, अलिकुलनीलसरैलशिरसिजेन, अग्राम्याकृतिना, राजकुलसंपर्कचतुरेण, गन्धर्वदारकेण के- यूरकनाम्नानुगम्यमाना प्रत्यूषस्येव प्रादुरासीत् । आगत्य च कोऽयमित्युपजातकुतूहला चन्द्रा- पीडं सुचिरमवैलोक्य महाश्वेतायाः समीपमुपसृत्य कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिला- तलं भेजे । उँपविष्टश्च तमदृष्टपूर्वमधः कृतकुसुमायुधमुपहसितसुरासुरगन्धर्व विद्याधररूपं रू पातिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमापेदे | परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम् -' किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम्' इति । अथ सा तरलिकया विनयावनतमौलिरीषदेवलम्बितकर्णपाशमतिमधुरया गिरा व्यजिज्ञपत्- 'भर्तृदारिके, दृष्टा खलु मया भर्तृदारिका कादम्बरी सर्वतः कुशलिनी । विज्ञापिता च नि- खिलं भर्तृदुहितुः संदेशम् | आकर्ण्य च यत्तया संततमुक्तस्थूला श्रुबिन्दुवर्ष रुदित्वा प्रतिसं- दिष्टम्, तदेप तथैव विसर्जितस्तस्या एव वीणावादकः केयूरकः कथयिष्यति' इत्युक्त्वा विरराम | विरतवचसि तस्यां केयूरकोऽब्रवीत् - 'भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढ- BARTERIES युगलस्य नेत्रयुग्मस्य ववलिम्ना शुभ्रत्वेन दिगन्तराणि धवलयतेव शुश्रीकुर्वतेव कुमुदवनानीव कैरवखण्डानी- व वर्षता वृष्टिं कुर्वता | पुण्डरीकमय मिव सिताम्भोजमयमिव दिवसं वासरं कुर्वता सृजता | कनकेति । कनकपट्टवत्सुवर्णपट्टवत्पृथु विस्तीर्ण ललाटमलिकं यस्य स तेन | अलीति | अलिकुलवन्नीलाः सरला अवकाः शिरसिजाः केशा यस्य स तेन । अग्राम्येति । अग्राम्या नागरीयाकृतिराकारो यस्य स तेन । राजेति । राजकुलेन यः संपर्कः संबन्धस्तत्र चतुरेण चातुर्ययुक्तेन । आगत्य चेति । आगल चैत्य च | कोऽयमित्युप- जातं समुत्पन्नं कुतूहलं यस्याः सा तथा । सुचिरं चिरकालं यावत् । चन्द्रापीडमवलोक्य निरीक्ष्य महाश्वेतायाः समीपमुपसृत्यागत्य कृतो विहितः प्रणामो यया सा सविनयमुपाविशदुपविष्टा | अनन्तरमिति | तरलिका- वस्थानन्तरमतिदूरादानतेन नम्रेणोत्तमाङ्गेन शिरसा प्रणम्य नमस्कृत्य केयूरकोऽपि महाश्वेतया दृष्टया निसृष्टं दर्शितं नातिसमीपवर्ति नातिनिकटवर्ति शिलातलं भेजेऽवितस्थौ । उपविष्टश्चेति । तत्रोपविष्ट आसीनश्च स तमदृष्टपूर्वमनवलोकितपूर्वमधः कृतः कुसुमायुधो येन स तमुपहसितं न्यकृतं सुरासुरगन्धर्वविद्याधराणां रूपं सौन्दर्यं येन स तमेवंविधं चन्द्रापीडस्य रूपातिशयं सौन्दर्याधिक्यं दृष्ट्वा चावलोक्य च विस्मयमाश्चर्यमापेदे प्रा- प्तवान् | परीति | परिसमाप्तः पूर्णीभूतो जपो जापो यस्याः सैवंविधा महाश्वेता तरलिका मिति पत्रच्छेत्यप्रा- क्षीत् । इतिद्योत्यमाह — कादम्बरीति | कादम्बरी प्रियसखी वल्लभवयस्या कुशलिनी कल्याणवती किं त्वया किं दृष्टावलोकिता | वा अथवा तत्पूर्वोक्तमस्मद्वचनं करिष्यति । अथेति । तत्प्रश्नानन्तरं सा तरलिका विनये-