पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३२९ 20 १ दत्तकण्ठग्रह त्वां विज्ञापयति - 'यदियमागत्य मामवदत्तरलिका तत्कथय किमयं गुरुजना- सुरोध:, किमिदं मञ्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोपालम्भः, किं प्रेमविच्छे- दौभिलापः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः | जानास्येव मे सहजप्रेमनिस्सन्द - निर्भरं हृदयम् । एवमति निष्ठुरं संदिशन्ती कथमसि न लजिता । तथा मधुरभाषिणी के- नासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा । स्वस्थोऽपि तावत्क इव सहृदय : कनीयस्य- वसानविरसे कर्मणीदृशे मतिमुपसर्पयेत्, किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः | सुद्द- हु:खखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशाः संभोगाः, कानि वा हसितानि । येनेदृशीं दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तैमयविधुरासु नलिनीपु सहवास परिचयाञ्चक्रवाकयुवतिरपि पैतिसमा- मसुखानि त्यजति, किमुत नार्यः | यंत्र सर्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी कथमिव तन्मय हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरह विधुरा तकर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति, तत्राहम वगणग्यैतत्कथमात्मसुखार्थिनी पाणि शिक्षिता सि दत्तः कण्ठग्रहो यया सा | कृतालिङ्गनेत्यर्थः । त्वां विज्ञापयति विज्ञप्तिं करोति । किं विज्ञप्तिं कृतवतीत्याह- यदियमिति । इयं तरलिका मामागयैत्य यदवददवोचत्तत्कथय ब्रूहि । किमयं गुरुजनानुरोधः किं गुरुजन- पारवश्यम् । किमिदं मच्चित्तस्य मन्मनुसः परीक्षणं परीक्षाकरणम् । किं गृहनिवासलक्षणो योऽपराध आगस्तरय निपुणो योग्योऽयमुपालम्भः । किं प्रेमविच्छेदार्थ स्नेह निवृत्त्यै अयमभिलापः संलापः । किं भक्तजनस्य सेव कजनस्य परित्याग उपायः प्रपञ्चः | किंवा प्रकोपः प्रतिघा | सहजं स्वाभाविकं यत्प्रेम तस्य निस्यन्दो रसस्तेन निर्भरं हृदयं मे मम जानस्येव जानन्त्येवा एवं अतिनिष्ठुरमतिपरुषं संदिशन्ती कथयन्ती कथं न लजितासि । तथा त्वं मधुरभाषिणी सत्यप्रियमनिष्टं वक्तुं जल्पितुं परुषं कठिनमभिधातुं कथयितुं केन पुंसा हितोपदेशविषयीकृतासि | स्वास्थ्यवशादेतादृशी मतिरुत्पद्यत इत्यभिप्रायेणाह-स्वस्थोऽपीति | स्वास्थ्य- वानपि तावदादौ सहृदयः पण्डितः कनीयसि लघीय सीदृशेऽवसानविर से प्रान्तदुःखदे कर्मणि क्रियायां क इव को जनो मतिं वुद्धिमुपसर्पयेत् । अस्वस्थानां तु दूरत आस्तेयाह – किमुतेति । अतिदुःखेनाभिहृतं हृदयं यस्यैवंभूतोऽस्मद्विधो जनः किमुत कथ्यते । सर्वथा तत्कर्मणि न प्रवर्तत इत्यर्थः । हीति निश्चितम् | सुहृद्दुःख- खेदिते मित्रदुःखाभिभूते मनसि कैव सुखाशा कः सौख्याभिलापः | कैच निरृतिर्मनःसंतुष्टिः । संभोगा इन्द्रि- यार्थाः कीदृशाः किंस्वरूपाः । हसितानि स्मितानि कानि च कीदृशानि | येन कामेन प्रियसखीदृशीं दशामव- स्थामुपनीता प्रापिता तं विषमिवाप्रियकारिणमनिष्टविधायिनमतिदारुणमतिभीपणं कथं कामं सकामं सामिलापं कुर्याम् । प्रणयसखीदुःखेन स्वस्मिन्दुःखवत्त्वं निदर्शयन्नाह --दिवसेति । दिवसकरस्य सूर्यस्यारतमयेन पर द्वीपान्तरगमनेन विधुरासु दुःखितासु नलिनीषु कमलिनीषु सत्सु सहवासपरिचयाचक्रवाकयुवतिरपि द्वन्द्वच 1 A- at det hos who GEF