हर्षनयनजलकणनीहारिणि वियद्विहारिणि मनोहारिणि विद्याधराभिसारिकाजने, चन्द्रापीड: सुप्तामालोक्य महाश्वेतां पल्लवशयने शनैः शनैः समुपाविशत् । 'अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोकः, इति चिन्तयन्नेव निद्रां ययौ । अथ क्षीणायां क्षपायामुषसि संध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जप- न्त्यां महाश्वेतायां निर्वर्तितप्राभातिकविधौ चन्द्रापीडे तरलिका पोडशवर्षवयसा, सावष्टम्भा- कृतिना, मदखेदालसगजर्गेमनगुरूणि पदानि निक्षिपता, पर्युषितचन्दनाङ्गरागधूसरोरुदण्ड- द्वयेन कुङ्कुमरागपिञ्जरारुणेन चामीकरशृङ्खलाकलाप निविडनियमितं कक्षाबन्धातिरिक्तप्रेस- त्पल्लवमधरवास एव केवलं वसानेन, निरुदरतया विभक्कमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपी- नबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणमणेर्विप्रकीर्यमाणमधोमुखकिर- णेन्द्रायुधजालवणशुकोत्तरीयमिवै कस्कन्धक्षिप्त मुद्दता, चूतपल्लवकोमलमनवरतताम्बूलबद्ध- रागान्धकारमघरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव , a हर्ष इति । हर्षजनिता ये नयनजलकणा एवं प्रमोदबाष्पपृषता एव नीहारं तुहिनं हिमं यस्मिन् । वियद्विहारिणि व्योमचारिणि मनोहारिण्यभिरामे । अस्यामिति । अस्यां पूर्वोक्तायां वेलायां समयवि- शेषे । खलु निश्चयेन । मामन्तरेण मद्यतिरेकेण वैशम्पायनः । अथ च वराकी पत्रलेखा | अथ च राजपुत्रलो- को नृपसुतसमूहः किं चिन्तयति किं चिन्तयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति वर्तमानता । इति चिन्तयन्नेवेति ध्यायन्नेव निद्रां ययौ प्रमीलां प्राप्तवान् । अथेति । क्षीणायां क्षपायामुषसि प्रभाते संध्यामुपास्य शिलातलोपविष्टायां पवित्राणि पूतान्यघमर्षणान्यापो- देवतास्तुतिरूपाणि महाश्वेतायां जपन्त्यां स्मरन्त्यां सत्यां निर्वर्तितो विहितः प्राभातिकः प्रत्युषःसंबन्धी विधिर्ये- नैवंविधे चन्द्रापीडे सा तरलिका प्रत्युषस्येव प्रादुरासीत्प्रकटीबभूवेत्यन्वयः । कीदृशी । केयूरकनाम्ना गन्धर्वदार- केणानुगम्यमाना । अथ केयूरकं विशेषयन्नाह - षोडशेति । पोडश वर्षाणि हायनानि तैः परिमितं वयो यस्य स तथा तेन । तावन्मात्रप्रमाणेनेत्यर्थः । सहावष्टम्भेनाभिमानेन वर्तमाना सावष्टम्भाकृतिराकारो यस्य स तेन । किं कुर्वता । मदखेदेनालसो मन्थरो यो गजो हस्ती तस्य गमनवद्गुरूणि पदानि चरणन्यासानि निक्षिपता स्थापयता | पर्युषितो गतदिनसक्तो यो चन्दनाङ्गरागस्तेन धूसरमीषत्पाण्डरमूरुदण्डद्वयं सक्थि दण्डद्वितयं यस्य स तेन । कुङ्कुमेति । कुङ्कुमं केसरं तस्य रागेण पिजरः पीतरक्तोऽरुणो देहस्थरागो यस्य स तेन । किं कुर्वता | केवलमवरवासोऽधोंशुकमेव वसानेन परिधानीकुर्वता । अथाधरवासो विशे- षयन्नाह – चामीति | चामीकरस्य सुवर्णस्य शृङ्खलाकलापस्तेन निबिडं यथा स्यात्तथा नियमितं बद्धम् । कक्षेति । कक्षाबन्धात्कटिबन्धादतिरिक्तस्य वस्त्रस्य प्रेङ्खन्त उल्लसन्तः पल्लवा अञ्चला यस्य तत् । निर्गतं यदुदरं तस्य भावस्तत्ता तया विभक्तो विभागीकृतो मध्यो मध्यभागो यस्य स तेन । अनेन सामुद्रिकसुलक्षणत्वमुक्तम् । विपुलेति । विपुलं_वृहद्वक्षो भुजान्तरं यस्य स तेन । दीर्घेति । दीर्घावायतावनुवृत्तपीनौ परम्परा पुष्ट बाहू भुजौ यस्य स तेन । वामेति । वामप्रकोष्ठे दक्षिणेतरकलाचिकायां दोलायमानं कम्पमानं माणिक्यव-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२५
दिखावट