पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । नुनकुमारवधमहापातकम्, दर्शयन्निव चिरकाललनं दक्षशापानलदाहचिह्नम्, अविरलभस्मा- रागधवलो मृगाजिनप्रावृतार्थो वामस्तन इवाम्बिकाया धूर्जटिजटामण्डलचूडामणिर्भवानुद गान्तारकाराजः। क्रमेण चोद्गते गगनमहापयोधिपुलिने सप्तलोकनिद्रामङ्गलकलशे कुमुद - बान्धवे विघटितकुमुदवने धवलितदशदिशि शङ्खश्वेते श्वेतिमानमातन्वति मानिनीमानदस्यौ शशाङ्कमण्डले, शशिकरकैलापकलिता स्वतन्त्रतीषु क्रशिमानमौडवीपु प्रभासु, प्रस्रवत्सु च कैला सशशिमणिशिलानां सर्वतः स्रोतःस्राविषु प्रस्रवणेषु, मृणालकन्दलिनि चावस्कन्दपति- नचन्द्रकर इव विलुप्तकमलवनशोभे भात्यच्छोदसरः पयसि, समुपोढमोहनिद्रे च द्राधीयो- वीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचक्रवाले निर्वृत्ते च चन्द्रोदये विद्रुते ३२६ षमुनिकुमारवलक्षणं महापातकं महापापम् | दक्षेति । दक्षप्रजापतेर्यः शापानलः शापवहिस्तेन दाहस्तस्य चियं चिरकाललग्नं चिरकालीनं दर्शयन्निव प्रकटयन्निव | पाण्डुरत्वकृष्णत्वसाम्येनोपमानान्तरमाह-अ -अविर लेति । अविरलो निविडो भस्माङ्गरागस्तेन धवलः शुभ्रः । तथा मृगस्याजिनं चर्म तेन प्रावृत्तमाच्छादितमर्ध यस्यैवंविधोऽम्बिकायाः पार्वत्या वामो दक्षिणेतरः स्तनः कुन्च इव | धूर्जटिरिति । धूर्जटिरीश्वरस्तस्य जटा- मण्डलं तस्य चूडामणिर्भगवान्माहात्म्यवांस्तारकाराजश्चन्द्र उदगादुदितवान् । क्रमेण परिपाट्या शशाङ्कमण्ड- ल उद्गत उदिते सति चन्द्रापीडो महाश्वेतां सुप्तां शयितामालोक्य निरीक्ष्य शनैः शनैर्मन्दं मन्दं पलवशयने किसलयशव्यायां समुपाविशदधितस्थौ | अथ च शशाङ्कमण्डलं विशेषयन्नाह - गगनेति । गगनमपारखा- न्महापयोथिर्जलधिस्तस्य पाण्डुरत्वसाम्यात्पुलिन इव पुलिने जलोज्झितसैकतरूपे सप्तलोकेषु निद्रायाः प्रमी- लाया मङ्गलकलश इव कुमुदस्य कैरवस्य बान्धवे बन्धुसदृशे | विघटितेति । विघटितानि विमुद्रिता नि कुमुदवनानि येन स तस्मिन् । धवलितेति । धवलिताः शुश्रीकृता दशदिशो येन स तस्मिन् । शङ्खवन- लजबच्छ्रेते शु॒भ्रे । किं कुर्वति । श्वेतिमानं श्वेतातिशयमातन्वति विस्तारयति सति । अथवा शङ्खस्य श्वेतो गुणस्तस्मिञ्श्वेतिमानं चाकचक्यरूपं विस्तारयति सति । इदं च श चन्द्रकिरणसंपर्कवशाद्विलक्षणा पाण्डुरता दृश्यत इत्यभिप्रायेण यथादर्श सूर्यकरसंपर्कवशाद्विलक्षणा स्वच्छता दृश्यते तद्वदिवेति केचित् । मानिनीति | मानिन्या मानवत्याः स्त्रियो यो मानः स्मयस्तस्य दस्यौ विपक्षे । मानिनीमानापहा- रकत्वाद्दस्युसादृश्यमिति । पुनः कासु | शशिकराणां चन्द्रकिरणानां कलापेन समूहेन कलिता सु सहितास्वौडवीषु ग्रहसंवन्धिनीषु प्रभासु कान्तिषु ऋशिमानं कृशत्वमातन्वतीषु विस्तारयन्तीषु । पुनः केषु । कैलासस्य शिलामणयश्चन्द्रकान्तास्तेषां शिलास्तासां सर्वतोऽभितः स्वतोऽम्भसरणं स्रोतस्तत्लवन्तीत्येवं शीलेषु प्रस्रवणेपूत्रेषु प्रस्रवत्सु क्षरत्सु | पुनः कस्मिन्सति । आच्छोदाभिधानस्य सरसः पयसि पानीये भाति राजति सति । कीदृशे । मृणालानां कन्दला वियन्ते यस्मिन् । विलुप्तेति | विलुप्ता विलोपं प्राप्ता कमलवनस्य पद्मखण्डस्य शोभा श्रीर्यस्मिन् । अतए वेतनत्प्रेक्षते--अवेति अवस्कन्द र्थ हुन