सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । हितवती च – 'यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित्कस्मैचिद्दातुमिच्छति तेदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि' इति । सर्वं च तदात्मदुहितुः कृतनिश्चयं निश्चलभाषितं कर्णपरम्परय परिजनसकाशाद्गन्धर्वरा- जश्चित्ररथः स्वयमशृणोत् । गच्छति काले समुपारूढ निर्भरयौवनामालोक्य से तां बलवदु- पतापपरवशः क्षणमपि न धृतिमलभत, एकापत्यतया चातिप्रियतया च न शक्तः किंचिदपि तामभिधातुमित्यपश्यंश्चान्यदुपायान्तरम् | इदमत प्राप्तकालमिति मत्वा तथा महादेव्या मदिरया सहावधार्य क्षीरोदनामानं कचुकिनम् 'वैसे महाश्वेते, त्वद्व्यतिरेकेणैव दग्धहृद- याणामिदमपरमस्माकमुपस्थितम् । इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम्' इति संदिश्य मत्स- मीपं प्रत्युषसि प्रेषितवान्, तैतो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं सा तरलिका 'सखि कादम्बरि, कं दुःखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति संदिश्य विसर्जिता । नातिचिरं गतायां च तस्या- मनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् । ॲत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उहन्निव ३२५ महाश्वेतायामात्मनः स्वस्य पाणिं नाहं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । यदीति | यदि कथमपि महता कष्टेन मामनिच्छन्तीमण्यवाञ्छन्तीमपि वलाद्धठात्तातः पिता कदाचित्कस्मैचित्पुरुषाय दातुमिच्छति वाञ्छति तदाहमनशनेन प्रायसा वा, हुताशनेन वह्निना वा, रज्ज्वा रश्मिना वा, विषेण गरलेन वा । सर्वत्र वाशब्दो विकल्पार्थः । नियतं निश्चित मात्मानमुत्स्रक्ष्यामि त्यजिष्यामि । इति तदात्मदुहितुर्निज सुतायाः सर्व स मग्रं कृतो निश्चयो यस्मिन्नेतादृशं निश्चलभाषितं स्थिरजल्पितं परिजन सकाशात्परिच्छद समीपात्कर्णपरम्परया श्रोत्रप्रणालिकया गन्धर्वराजश्चित्ररथः स्वयमशृणोदा कर्णयत् । गच्छतिव्रजति काले समये सति स चित्ररथः समु- पारूढं प्राप्तं निर्भरमतिशायि यौवनं तारुण्यं यस्यामेतादृशीं तां कादम्बरीमालोक्य निरीक्ष्य बलवानुपतापः सं तापस्तेन परवशः परायत्तः क्षणमपि धृतिं संतोषं नालभत नाप्तवान् । एकेति । एकापत्यतयैकसंततितया- तिप्रियतया च किंचिदपि तां कादम्बरीमभिधातुं कथयितुं न शक्तो न समर्थ इति हेतोरन्यदुपायान्तरं कार्य- साधकप्रकारान्तरमपश्यन्ननवलोकयंश्च । इदं कुमारीलक्षणमत्र प्राप्तकालं प्राप्तसमयमिति मत्वा ज्ञात्वा तथा मदिरया महादेव्या सहावधार्य निश्चित्य क्षीरोदनामानं कञ्चुकिनं सौविदल्लमिति संदिश्येत्युक्त्वा मत्समीपं मदु पान्तं प्रत्युषसि प्रभाते प्रेषितवान्प्राहिणोत् । इतियोलमाह - वत्से इति । हे वत्से महाश्वेते, लव्यतिरेके- णैव त्वद्वृत्तान्तेनैव दग्धं ज्वलितं हृदयं येषामेवंविधानामस्मा कमिदं कादम्बरीसक्तमपरं दुःखमुपस्थितं प्रादुर्भू- तम् । इदानीं तु सांप्रतं कादम्बरीमनुनेतुमनुनयं कर्तुं त्वं शरणं त्वमेवाश्रयः । ततो मया गुरुवचनं पूज्यवच- स्तस्य गौरवेणानुलंङ्घयतया सखी आली तस्याः प्रेम्णा स्नेहेन च क्षीरोदेन कञ्चुकिना सार्धं सा तरलिका इति संदिश्य कथयित्वा विसर्जिता प्रहिता | इतिथोत्यमाह - हे सखि कादम्बरि, कं दुःखितमपि पीडितमपि