पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ कादम्बरी । त्रेण स्नेहमुपदर्शयन्रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टि- तम्, येन रोदिपि । तदर्थमार्जन्मतः प्रभृति समुचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो वान्धवजन: | संनिहिता अपि तृणावज्ञयावधीरिता विषयाः । मुक्तान्यतिशयितशुनासीर- समृद्धान्यैश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमैनुचितैः संक्लेशैरुपनीता तनुः | गृहीतं ब्रह्मचर्यम् । आयोजितस्तपसि मह्त्यात्मा | वनिताजनर्दुष्करमपि कृतमरण्या- वस्थानम् । अपि चानायासेनैवात्मा दुःखाभिभूतैः परित्यज्यते । महीयसा न तु यत्नेन गरी यसि क्लेशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम तँदतिनिष्फलम् | अविद्वजनाचरित एप मार्गः | मोहविलसितमेतत् अज्ञानपद्धतिरियम्, रभसाचरितमिदम् क्षुद्रदृष्टिरेषा, 'अतिप्रमादोऽयम्, मौर्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणा: परित्यज्यन्ते । स्वयं चेन्न जहति न परित्याज्याः । अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरि- , १ । स्नेहसदृशं प्रीतियोग्यं कर्म तत्सुखेन सुखं तद्दुःखेन दुःखमनुष्टातुं विधातुमशक्तोऽसमर्थो निष्फलेन निष्प्रयोजने नाश्रुपातमात्रेण स्नेहं प्रीतिमुपदर्शयन्बाह्यवृत्त्या प्रकाशयन्रोदिति रोदनं करोति । लोकेभ्यस्तस्या नैपरीत्यं प्रदर्श- यन्नाह - त्वया त्विति । त्वया भवत्या कर्मणैव कर्तव्यरूपेणैव सर्व समग्रमाचरन्त्या कुर्वन्त्या प्रेमोचितं स्नेयोग्यं किमिव नाचेष्टितम् | अपि तु सर्वमेव विहितमिति भावः । येन कारणेन त्वं रोदिष्यश्रुपातं करोपि तदर्थं पुण्डरीकार्थमाजन्मतः प्रभृत्याजन्म मर्यादीकृत्य समुचितो योग्यः परिचयः संगतिर्यस्यैवंविधः प्रेयानति- प्रियोऽसंस्तुत इवासंस्तुतोऽपरिचितस्तद्वदिव वान्धवजनः स्वजनवर्गः परित्यक्त उज्झितः । संनिहितेति । संनिहिता अपि समीपवर्तिनोऽपि तृणवद्यावज्ञावगणना तया विषया इन्द्रियार्था अवधीरिता अवगणिताः । अतीति । अतिशयिता तिरस्कृता शुनासीरस्येन्द्रस्य समृद्धिः संपरेवंविधान्यैश्वर्यसुखानि विभवसौख्यानि मुक्तानि व्यक्तानि । मृणालिनीति । अतितनीयस्य प्यतिकृशापि तनुः शरीरमनुचितैरयोग्यैः संक्लेशैव्रतग्रह- णरूपैर्नितरामत्यर्थं तनिमानं कृशत्वमुपनीता प्रापिता | केव | मृणालिनीव कमलिनीव | गृहीतेति | गृहीतं स्वीकृतं ब्रह्मचर्य ब्रह्मत्रतम् | आयोजितेति । महति गरिष्ठे तपस्यात्मा योजितः स्थापितः । वनितेति । अत्रापिशव्दो भिन्नक्रमः | तेन वनिताजनस्य स्त्रीजनस्य दुष्करमपि दुःसाध्यमप्यरण्यावस्थानं कृतं विहितम् । अनेति । दुःखाभिभूतैरनायासेनैव परिश्रममन्त रेणैवात्मा परित्यज्यते । शरीरत्यागः क्रियत इति भावः । न- विति | तु पुनरर्थकः । न केवलं परं महीयसा गरिठेन यत्नेन प्रयासेन गरीयसि महीयसि क्लेशे पूर्वोक्तस्वरूपे निक्षिप्यते । एतेन प्राणप्रियवियोग आत्मपरित्यागात्तस्यात्मनो गरिष्ठक्केशे परिक्षेपणं महीयानिति ध्वनितम् | यदेतदिति । नामेति कोमलामन्त्रणे | यदेतदनुमरणमन्वारोहणं तदतिनिष्फलं निरर्थकम् । यतः कुमारः प्रियः नतु विहितः पतिर्येनान्वारोहणं किं तु मृतानुमरणमात्रं तदतिनिष्प्रयोजनमिति भावः । अथ च निष्फ- लत्वं प्रदर्शयन्नाह — अविद्वज्जनेति । एषोऽन्वारोहलक्षणो मार्गः पन्था अविद्वज्जना अपण्डितलोकास्तैराचार- तः सेवितः । एतदिति । पूर्वोक्तं मोहविलसितमज्ञान विजृम्भितम् | अज्ञानेति । इयमन्वारोहणे प्रवृत्ति रज्ञानपद्धतिरज्ञानमार्गः । रभसेति | इदमन्वारोहणं रभसाविचारपूर्वकमाचरितमासेवितम् । क्षुद्रेति । 1 Cent