पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३१९ त्यागोऽयमसह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु न फमपि गुणमावहति । नै तावत्तस्यायं प्रत्युज्जीवनोपयः, ने धर्मोपचयकारणम्, न शुभलोकोपार्जनहेतुः, न निर्रयपा- तप्रतीकारः, न दर्शनोपायः न परस्परसमागमनिमित्तम् । अन्यामेव स्वकर्मफलपाको पचि तामसाववशो नीयते भूमिम् । असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवस्तु जला- ञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च, मृतस्तु नोभयस्यापि । स्मर तावत्प्रिया मेकपत्नीं रति भगवति भर्तरि मकरकेतौ सकलावलाज नहृदयहारिणि हेरैहुतभुग्दग्धेऽप्यविरहिताम सुभिः । पृथां च वार्ष्णेयीं शूरसेनसुतामभिरूपे सौवज्ञ विजितसकलराजक मौलिकुसुमवसि- ताशेषपादपीठे पत्यावखिलभुवनैवेलिभागभुजि पाण्डी किंदममुनिशापानलेन्धनतामुपेंगते- ऽध्यँपरित्यक्तजीविताम् । उत्तरां च विराटदुहितरं वालां बालशशिनीव नयनानन्दहेतौ विन यवति विक्रान्ते च पञ्चत्वमभिमन्यावगतेऽपि धृतदेहाम् । दुःशल्यां च धृतराष्ट्रदुहितरं 1 - अत्र हीति । हीति निश्चये । अस्मिन्ननुमरणे विचार्यमाणे विचारणाविषयी क्रियमाणेऽयं प्राणपरित्यागः स्वार्थ एवात्मीयकृत्यमेव । तत्र हेतुमाह - असह्येति । आत्मनो जीवस्य न सोढुमशक्यासह्या या शोकवेदना शुव्य- था तस्याः प्रतीकारो निवृत्त्युपायस्तस्य भावस्तत्त्वं तस्मात् | उपेति । उपरतस्य मृतस्य तु न कमपि गुणं हित- मावहत्यादधाति । एतदर्थं स्पष्टयन्नाह - न तावदिति । तावदादौ तस्योपरतस्य प्रत्युज्जीवनोपायः पुनः प्राणधारणप्रतिक्रिया न भवति । नेति । धर्मस्य पुण्यस्योपचयः पुष्टिस्तस्य कारणं निमित्तं न भवति । नेति । शुभलोकस्य स्वर्गलोकस्योपार्जनमर्जनं तस्य हेतुर्निदानम् । निरयेति । निरये दुर्गतौ पातः पतनं तस्य प्रतीकारः प्रतिक्रिया न । नेति । दर्शनस्यावलोकनस्याप्युपायो न । नेति । परस्परमन्योन्यं यः समागमः संवन्धस्तस्य नि- मित्तं कारणं न भवति । तत्र हेतुमाह - अन्यामिति । असौ मृतोऽवशः पराधीनः स्वस्य कर्मणोः स्वकृत पापपुण्ययोर्यः फलपाकस्तेनोपचितां पुष्टामन्यामेव कर्मभूमिं नीयते प्राप्यते । अन्यदप्यनुमरणेनानिष्टमाह - अ साविति । असौ पूर्व मृत आत्मघातिनोऽनुमृतस्यैनसा पापेन केवलं संयुज्यते संयुक्तो भवति । अनुमरणा- भावे गुणानाह - जीवंस्त्विति । जीवञ्श्वसनुपरतस्य मृतस्यात्मनो जीवस्य जलाञ्जलिदानादिना बहुपकरो- त्यनेकामुपकृतिं कुरुते । मृतस्तुभयस्यापि स्वस्य परस्य च न किमप्युपकरोति । दृष्टान्तद्वारा एनमर्थ दृढीकुर्व- नाह - स्मरेति । तावदादौ सकल: समग्रो योऽवलाजनः स्त्रीलोकस्तस्य हृदयहारिणि चित्तापहारिणि भग- वति माहात्म्यवति भर्तरि प्राणवल्लभे मकरकेतौ श्रीमदने हरस्य महादेवस्य यो हुतभुनेत्राग्निस्तेन दग्धे भ स्मीभूते सत्यपि, एक एव पतिर्यस्यास्तामेकपत्नीं प्रियां वल्लभां रतिमसुभिः प्राणैविरहितां संयुक्तां स्मर स्मृति- गोचरीकुरु | यथा तथा प्राणा नोज्झिताः, स्वभर्तुः कृयं च कृतम्, तथा वयापि विधेयमिति भावः । अ- न्यासामपि निदर्शनद्वारा पूर्वोक्तमर्थ दृढीकुर्वन्नाह - पृथामिति । पाण्डौं भर्तरि किंदम इलभिधया प्रसिद्धो यो मुनिस्तस्य शाप एवानलो वह्निस्तस्मिन्निन्धनतामिमतामुपगतेऽपि प्राप्तेऽप्यपरित्यक्तजीवितामनुज्झितप्राणां वार्ष्णेयी मन्धकवृष्णिकुलोत्पन्नां शूरसेनस्य राज्ञः सुतां पुत्रीं पृथां कुन्तीम् । स्मरेत्यस्य सर्वत्रापि संबन्धः । अथ भर्तारं विशेषयन्नाह —— सावशयेति | सावज्ञयैवानिच्छयैव विजितं स्वायत्तीकृतं यत्सकलं समग्रं राज्ञां समूहो to the landd Te firrifi di P