पूर्वभागः । ३१७ 9 स्नानमुपस्पृशन्ती, प्रतिदिनमर्चयन्ती देवं त्र्यम्बकम् अस्यामेव गुहायां तैरलिकया सह दीर्घ शोकमनुभवन्त्यवसम् | साहमेवंविधा पापकारिणी निर्लक्षणा निर्लज्जा क्रूरा निःस्नेही नृशंसा गर्हणीया निःप्रयोजनोत्पन्ना निःफलजीविता निर्रवलम्बना निःसुखा च । किं मैया दृष्टया पृष्टया वा कृतब्राह्मणवध महापातकया करोति महाभाग' इत्युक्त्वा पाण्डुना वल्कलो- पान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनं दुर्निवारबाष्पवेगमपारयन्ती निवारयितु- मुन्मुक्तकण्ठमतिचिरमुञ्चैः प्रारोदीत् । चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन मधुरालापतया निःसङ्गतया तपस्वितया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपारूढ - गौरवोऽभूत् । तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन तथा च कृतज्ञतया हृत- हृदय : सुतरामारोपितप्रीतिरभवत् । आर्द्राकृतहृदयश्च शनैः शनैरेनामभाषत – 'भगवति, क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेना श्रुपातमा- त्रिसंध्यं त्रिसायम् । अत्र सरस्यच्छोदनाम्नि तटाके स्नानमालवमुपस्पृशं कुर्वन्ती । प्रतीति । प्रतिदिनं प्रति- वासरं त्र्यम्बकं देवमीश्वरमर्चयन्ती पूजयन्ती । अस्यामिति । अस्यां प्रत्यक्षगतायामेव गुहायां कंदरायां तरलिकया सह दीर्घं शोकमनुभवन्ती साक्षात्कुर्वन्त्यवसं निवासमकरवम् । यत्तदोर्नित्याभिसंवन्धाद्या पूर्वोक्ता सैवंविधाहं नान्या । इतस्तस्याः कियन्ति विशेषणानि प्रदर्शयन्नाह - पापेति । पापं कलुपं करो- तीत्येवंशीला सा, निर्लक्षणा पाण्डरपृष्ठा, निर्लजा नित्रपा, क्रूरा दुष्टा, निःस्नेहा निःप्रेमा, नृशंसा निखिशा, गर्हणीया निन्दनीया, निःप्रयोजनं निरर्थकमुत्पन्ना प्रादुर्भूता, निःफलमवकेशि जीवितं प्राणितं यस्याः सा तथा, निर्गतमवलम्वमाश्रयो यस्याः सा तथा निर्गतं सुखं सातं यस्याः सा तथा । चकारः समु• म्चयार्थः । स्वस्य निन्दां कुर्वत्याह - किमिति । हे महाभाग हे सत्पुरुष, कृतं ब्राह्मणवघलक्षणं महापातकं ययैवंविधया मया दृष्टयावलोकितया पृष्टया पृच्छाविषयीकृतया वा मया किं करोति किं करिष्यति । अत्र भ विष्यत्यर्थे वर्तमाना | इति पूर्वोक्तमुक्त्वा कथयित्वा पाण्डुना शुभ्रेण वल्कलोपान्तेन चोचाञ्चलेन वदनं मुखमा च्छाद्य । अत्र शुक्लत्वसाधर्म्यादुत्प्रेक्षते - शरदिति । शरद्धनात्ययस्तस्या मेघशकलेन जलधरखण्डेन शशिन- मिव चन्द्रमिव । अत्र वदनस्य चन्द्र सादृश्यम्, वल्कलोपान्तस्य च शरन्मेघशकलसादृश्यमिति भावः । दुरि- ति | दुर्निवारः वाष्पो नेत्राम्बु तस्य वेगं रंहो निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवन्त्युन्मुक्तकण्ठं यथा स्यात्तथातिचिरं चिरकालमुच्चैस्तारस्वरेण प्रारोदीद्रुदनमकार्षीत् । - चन्द्रापीडस्त्विति । प्रथममेवादावेव तस्या महाश्वेताया रूपेण सौन्दर्येण, विनयेन प्रणिपत्यादिना, दाक्षि ण्येनानुकूल्येन, मधुरो मिष्टो य आलापः संलापस्तस्य भावस्तत्ता तथा, तथा निर्गतो यः सङ्गोऽभिष्वङ्गरतस्य भाव- खत्ता तथा । तपेति । तपस्विन्या भावस्तत्ता तथा । तथा प्रशान्तत्वेन सौम्यप्रकृतित्वेन च । तथा निरभि- TIST Artærrarı IT TETT TI पा
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१५
दिखावट