३१६ कादम्बरी । नित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बा च परित्यज्य सह पैरिजनेन सफलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि, गृहीतब्रह्मचर्या देवं त्रैलोक्यनाथमनाथशरणमिमं शरणार्थिनी स्थाणुमश्रिता | अपरेद्युश्च कुतोऽपि समुपलब्धवृत्तान्तस्तात : सहाम्वया सह बन्धुवर्गेणागत्य सुचिरं कृताक्रन्द स्तैस्तै रु पायैः अभ्यर्थनाभिश्च वैह्वीभिः, उपदेशैश्चानेकप्रकारैः, सान्त्वनैश्च नानाविधैः, गृहागमनाय मे महान्तं यत्नमकरोत् । यदा च नेयमस्माद्व्यवसायात्कथंचिदपि शक्यते व्यावर्तयितुमिति निश्चयमधिगतवान्, तदा निराशोऽपि दुस्त्यजतया दुहितृस्नेहस्य पुनःपुनर्मया विसृज्यमा नोऽपि वहन्दिवसान्स्थित्वा सशोक एवान्तर्दामानहृदयो गृहानयासीत् । गते च ताते ततः प्रभृति तस्य जनस्याश्रुमोक्षमात्रेण कृतज्ञतां दर्शयन्ती, तदनुरागकुशमिदमपुण्यबहुलमस्त- मितलज्जममङ्गलभूतमनेकक्लेशायाससहस्रनिवासं दग्धशरीरकं बेहुविधैर्नियमशतैः शोषयन्ती, वन्यैश्च फैलमूलवारिभिर्वर्तमाना जपव्याजेन तद्गुणगणानिव गणयन्ती, त्रिसंध्यमत्र सरसि चिन्तयित्वा विचार्य | सर्वभावानां समग्रपदार्थानामनित्यतां विनाशितां भावयित्वा भावनाविषयीकृत्य च । सर्वसुखानां समग्र सौख्यानामकाण्डेऽनवसरे भङ्गुरतां भङ्गशीलतामवधार्थ निश्चिातातं पितरम विगणय्यानादृत्य परिजनेन परिवारेण सह सकलं समग्र बन्धुवर्ग स्वजनलोकं परित्यज्य दूरीकृत्य | विषयसुखेभ्य इन्द्रिय सातेभ्यो मनश्चित्तं निवर्त्य पराङ्मुखीकृत्य । इन्द्रियाणि करणानि संगम्य नियन्त्रय | गृहीतं स्वीकृतं ब्रह्मचर्य यया सा देवं त्रैलोक्यनाथमिममनाथानां शरणं स्थाणुमीश्वरं शरणार्थिनी त्राणाभिलापिण्यहमाश्रिताश्रयणं कृतवती । अपरेधु- रिति । अपरेद्युरन्येद्युः कुतोऽपि कस्मादपि समुपलब्धः प्राप्तो वृत्तान्त उदन्तो येनैवंभूतस्तातः पिताम्वया मात्रा च सह तथा वन्धुवर्गेण स्वजनवर्गेण सहागल्यैत्य सुचिरं चिरकालं यावत्कृतो विहित आक्रन्दो येन स तैस्तै- रुपायैः प्रपञ्चैः, ताभिर्बह्वीभिरभ्यर्थनाभिः प्रार्थनाभिः, अनेकैरुपदेशैर्हितवाक्यैः, नानाविधैः सान्त्वनैः सामभिः, 'एभिः कृत्वा मे मम गृहागमनाय महान्तं यत्नमुद्योगमकरोदसृजत् । यदा चेति । यदा यस्मिन्काल इयं महाश्वेतास्माध्यवसायाड्याटतेः कथंचिदपि कष्टेनापि व्यावर्तयितुं निवर्तयितुं न शक्यते न पार्यत इति निश्चयं निर्णयमधिगतवाञ्ज्ञातवान् । तदेति । तस्मिन्काले निराशोऽपि निर्गतसमीहितोऽपि | गृहं न गत इत्यत्र हेतु- माह — दुहित्रिति । दुहिता पुत्री तस्याः स्नेहस्य प्रेम्णो दुस्त्यजतया दुर्निवारतया | स्नेहाधिक्यं प्रदर्शयन्नाह - पुनरिति । पुनःपुनर्वारंवारं मया विसृज्यमानोऽपि गृहे गम्यतामिति काम्यमानोऽपि वहूननेकान्दिवसान्दि- नान्स्थित्वा सशोकः शुचा सह वर्तमानोऽन्तर्मंध्ये दह्यमानं प्रज्वलमानं हृदयं चेतो यस्यैवंविध एवं गृहानयासी. दगमत् । 'गृहाः पुंसि' इति पुंस्त्वम् | गते चेति । ताते पितरि गते च सति ततः प्रभृति तद्दिनादारभ्य तस्य जनस्य पुण्डरीकस्याश्रमोक्षमात्रेण नेत्रवारिमोचनेनैव कृतं जानातीति कृतज्ञस्तस्य भावस्तत्ता तां दर्शय- न्ती प्रकाशयन्ती | पुनः किं कुर्तन्ती । दग्धशरीरमेव दग्धशरीरकम् | स्वार्थे कः तच्छोषयन्ती कृशतां प्रा- पयन्ती । अथ शरीरकं विशेषयन्नाह - तदिति । तस्मिन्कुमारे पुण्डरीके योऽनुरागः स्नेहस्तेन कृशं सूक्ष्मम- मिशवरूप अ az
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१४
दिखावट