, सयोश्चांसयोर्मलयजरसलवलुलितकमलिनी पलाशावगुण्ठिते च हृदये स्टेशन्ती, 'पुण्डरीक, निष्ठुरोऽसि । एवमप्यात न गणयसि माम्' इत्युपालभमाना मुहुरेनमन्वनयम्, मुँहु: पर्य- चुम्बम्, मुँहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । 'आः पापे, त्वयापि मत्प्रत्यागमनकालं यावद- स्यासवो न रक्षिताः' इति तामेकावलीमगर्हयम्, 'अयि भगवन्, प्रसीद | प्रत्युज्जीवयै नम्' इति मुँहुः कपि जलस्य पादयोरपतम्, मुहुञ्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् । अद्यापि चिन्तयन्ती न जानामि तस्मिन्काले कुतस्तान्यचिन्तितान्यशिक्षितान्यनुपदिष्टान्यदृष्टपूर्वाणि मे हतपुण्याया: कृपणानि चाटुसहस्राणि प्रादुरभवन, कुतस्ते संलापाः, कुतस्तान्यतिकरु- णानि वैक्लव्यरुदितानि । अन्य एव स प्रकार: । प्रलयोर्मय इवोदतिष्ठन्नन्तर्वाप्प वेगानाम्, जलयत्राणीवामुच्यन्ताप्रवाहाणाम्, मरोहा इव निरगच्छन्त्रलापानाम्, शिखरशतानीवाव- र्धन्त दुःखानाम्, प्रसूतय इवोदपाद्यन्त मूर्च्छानाम्' इत्येवमात्मवृत्तान्तं निवेदयन्त्या , न्ति कुसुमानि पुष्पाणि येषु तेषां भावस्तत्ता तथा शिरोरुहैरपि केशैरपि । मुक्तेति । मुक्ता वाष्पजलबिन्दवो यैरेवंविधैरिव । अत्रापि पुष्पनेत्रजलयोः श्वेतत्वसाम्यादुपमानोपमेयभावः । प्रस्विति । प्रसूतानि जनितानि विमलानि निर्मलानि मणिकिरणान्येवाणि येषु तेषां भावस्तत्ता तथा आभरणैरपि विभूषणैरपि प्ररुदितैरिव कृता- श्रुपातैरिव | उपेतेति । तत्रिभिरन्विता | तज्जीवितेति । तस्य मुनिकुमारस्य जीवितं तद्वदिवात्ममरणाय स्व- निधनाय स्पृहयन्ती वाञ्छां कुर्वन्ती। मृतस्यापि गतप्राणस्यापि सर्वात्मना सर्वप्रकारेण हृदयं प्रवेष्टुं प्रवेशं कर्तुमि- च्छन्तीव । करतलेन पाणितलेन स्त्रेन मुनिकपोलयोर्गल्लात्परप्रदेशयोर्ललाटे च कीदृशे | आश्यानं शुष्कं चन्दनं मलयजं तेन श्वेतं शुभ्रं जटामूलं सटापीठं यस्मिन् | अंसयोश्च स्कन्धयोश्च । कीदृशयोः । निहितेति । निहितानि स्थापितानि सरसानि रसो जलं तद्युक्तानि बिसानि तन्तुलानि ययोः । अथ हृदयं विशेषयन्नाह – मलयेति । म लयजस्य चन्दनस्य रसो द्रवस्तस्य लवो लेशस्तेन लुलितानि मिलितानि यानि कमलिनीपलाशानि पत्राणि तैरवगु- ण्ठिते व्याप्ते स्पृशन्ती स्पर्शं कुर्वन्ती | पुण्डरीति | हे पुण्डरीक, त्वं निष्ठुरः क्रूरोऽसि । एवमपि पूर्वोक्तप्रकारे- णापि मामार्ता न गणयसि न गणनां करोषि । इत्युपालभमानोपालम्भं ददाना मुहुर्वारंवारमेनमन्वनयमनीतवती मुहुर्यांरंवारं पर्यचुम्बं चुम्बितवती । मुहुर्वारंवारं कण्ठे गृहीत्वा व्याक्रोशमाक्रोशितवती । आः पापे, त्वयापि भवत्यापि मम प्रत्यागमनकालं मदीयागमनसमयं यावत् । अस्य पुण्डरीकस्यासवः प्राणा न रक्षिता न त्रा- ताः । इति तामेकावलीमगर्हयं गर्हितवती । अयीति | अयि कोमलामन्त्रणे । हे भगवन्, प्रसीद प्रसन्नो भ- व । एनं पुण्डरीकं प्रत्युज्जीवय सजीवितं कुरु | इति मुहुर्वारंवारं कपिञ्जलस्य मुनेः पादयोश्चरणयोरपतं प तितवती । मुहुश्चेति । वारंवारं तरलिकां कण्ठे गृहीत्वा प्रारुदं रुदनमकार्षम् । तस्मिन्निति । तस्मिन्का- ले रोदनदशायां यान्यचिन्तितान्यतर्कितानि, अशिक्षितान्यपठितानि, अनुपदिष्टानि केनापि नोपदेशीकृतानि, अदृष्टपूर्वाण्य नवलोकित पूर्वाणि, हतपुण्याया मे मम कृपणानि दीनानि चाटुसहस्राणि प्रियंप्रायवचनसहस्रा- णि कुतः प्रादुरभवनकुतः प्रकटीवभूवुरित्यद्याप्येतद्दिनपर्यन्तं चिन्तयन्ती न जानामि न सम्यक्तयावकल. यामि । कुतस्ते पूर्वोक्ताः संलापाः | कुतस्तानि हृदिस्थान्यतिकरुणान्यतिदीनानि । विक्लवो विह्वलस्तस्य भावो वैक्व्यं तस्य रुदितानि क्रन्दितानि | अन्य एव भिन्न एव स प्रकारो भेदः । तान्युत्प्रेक्षते चतुर्भिः – प्रलये-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०८
दिखावट