पूर्वभागः । ३११ एव तस्याः समतिक्रान्तं कथमध्यतिकष्टमवस्थान्तरमनुभवन्त्या इव चेतनां जहार मूर्च्छा । मूर्च्छावेगान्निष्पतन्तीं च शिलातले तां सैसंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रा- पीडो विधूतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्संज्ञां ग्राहितवान् | उपजातकारुण्यश्च बाप्पसलिलोत्पीडनेन प्रक्षाल्यमानकपोलो लब्धचेतनामवा- दीत् – 'भगवति, मया पापेन तवायं पुनरभिनवतां नीतः शोकः, येनेदृशीं दशामुपनीतासि । तद्लमनया कथया । संहियतामियम् | अहमप्यसमर्थ : श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमा- नानि प्रियजनविश्वासवचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृजनस्य दुःखानि | तन्ना- हंसि कथंकथमपि विधृतानिमानसुलभानसून्पुर्नः शोकानल इन्धनतामुपनेतुम्' इत्येवमुक्ता दीर्घमुष्णं च निःश्वस्य बाष्मायमाणलोचना सनिर्वेदमवादीत् – 'राजपुत्र, या तदा तस्यामति- दारुणायां हृतनिशायामेभिरतिनृशंसैर सुभिर्न परित्यक्ता ते मामिदानीं परित्यजन्तीति दूरापे- तम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे mange नां मोहानां प्रसूतय इवानवरतसंताना नीवोदपाद्यन्ता क्रियन्त । इत्येवं पूर्वोक्तप्रकारेणात्मवृत्तान्तं स्वकीयो दन्तं निवेदयन्त्या एव कथयन्त्या एव तस्या महाश्वेतायाः । अतिक्रान्तारिष्टहेतोस्तथा वेदना नास्तीत्यत आह - स. मतीति । कथमपि महता कष्टेन समतिक्रान्तं व्यतीतमतिकष्टंन यस्मिन्नेवभूतमवस्थान्तरं मुनिकुमारमृत्युलक्षण. मनुभवन्त्या इवानुभवविषयीकुर्वन्या इव तस्या महाश्वेताया मूर्च्छा मोहश्चेतनां चैतन्यं जहाराहरन् । मूर्च्छावेगा. न्मोहरंहसः शिलातले निष्पन्तीमधःसंयोगफलिकां क्रियां कुर्वन्तीं तां महाश्वेतां ससंभ्रमं प्रसारितः विस्तारितः करो येनैवंभूतो जातपीडश्चन्द्रापीड: परिजन इव परिच्छद इव विधृतवान्धारितवान् | अश्रुजलार्द्रेण नेत्रवारि- क्लिन्नेन च तदीयेनैव | महाश्वेता स्वीकृतेनैवेत्यर्थः । उत्तरीयं यद्वल्कलं तस्य प्रान्तेन शनैः शनैर्मन्दमन्दं वीजय न्वातं कुर्वन्संज्ञां चेतनां ग्राहितवान् | आनीतवानित्यर्थः । उपेति । उपजातं समुत्पन्नं कारुण्यं यस्य सः बाष्पस लिलस्योत्पीडनं प्रवाहस्तेन प्रक्षाल्यमानौ कपोलौ यस्य स लब्धचेतनां प्राप्तचैतन्यामवादीदवोचत् हे भगवति महाश्वेते, मया पापेन पापात्मना तवायं शोकः पुनर्द्वितीयवारमभिनवतां प्रत्यग्रतां नीतः प्रापितः, येन कारणेने- दृशीं दशामवस्थामुपनीतासि प्रापितासि । तदिति । तस्माद्धेतोरनया कथयालं कृतम् । इयं कथा संहियतां सं- क्षिप्यताम् | हि यस्मादतिक्रान्तान्यपि व्यतीतान्यपि संकीर्त्यमानानि वाच्यमानानि प्रियजनस्येष्टलोकस्य वि श्वासवचनानि विश्रम्भभाषितान्यहमपि श्रोतुमसमर्थोऽक्षमः । तत्र हेतुमाह - अनुभवेति | सुहृज्जनस्य मित्रलोकस्य दुःखान्यनुभवसमां विपाकतुल्यां वेदनां व्यथामुपजनयन्ति निष्पादयन्ति । तदिति हेत्वर्थे । कथं कथमपि महता कष्टेन विवृतानिमान सुलभान्दुःप्रापानसून्प्राणान्पुनः शोकानले शुग्वह्नाविन्धनतामिध्मतामुपने- तुं प्रापयितुं त्वं नार्हसि न योग्या भवसि । इत्येवं पूर्वोक्तप्रकारेणोक्ता दीर्घमायतमुष्णं च निःश्वस्य निःश्वास मुक्खा बाष्पायमाणे लोचने नेत्रे यस्याः सैवंविधा निदः स्व मनं तसहितं यथा स्यात्तथावादीदवोचत । किं , ·
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०९
दिखावट