पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । तोऽसि । दोसजनमकारणात्परित्यज्य प्रजन्न विभेषि कौलीनात् । अलीकानुरागविप्रेतार- ■लया किं वा मया वामया पापया । आः, अहमद्यापि प्राणिमि । हा, हतास्मि मन्दभा- । कथं न त्वं जातः, न विनयः, न बन्धुवर्गः, न परलोक: । धिङ्मां दुष्कृतकारि- १ १ यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं नमुत्सृज्य गृहं गतवती । किं मे गृहेण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं नेन । हा, कमुपयामि शरणम् | मँयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् । दयितदक्षिणां भगवति भवितव्यते । कुरु कृपाम् । पाहि वनितामनाथाम् | भग- वनदेवताः, प्रसीदत | प्रयच्छतास्य प्राणान् । अव वसुंधरे, सकललोकानुग्रहजननि । -, नानुकम्पसे । तात कैलास, शरणागतीस्मि ते । दर्शय दयालुताम्' इत्येतानि चा- - च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवाविष्टेवोन्मत्तेव भूतोपहतेव व्यलपम् । रिपतितैन यनजलधारानिकरच्छलेन विलीयमानेव, द्रवतामिव नीयमाना, जलाकारे- क्रियमाणा, प्रलापाक्षरैरपि देशनमयूखशिखानुगततया साधारैर निष्पतद्भिः शि- इप्यविरलविगैलकुसुमतया मुक्तबाष्पजलबिन्दुभिरिवाभरणैरपि प्रैसूतविमलमणिकिर- जन्गच्छन्कौलीना जनापवादात्र विभेष भयं प्राप्नोषि | अलीकेति । अलीको मिथ्या योऽनुरागस्तेन रणं वञ्चनं तत्र कुशलया दक्षया वामया प्रतिकूलया पापया दुष्टकर्मकारिण्या मया किंवा स्यात् । ते ज्ञातम् | अहमद्याप्येतावत्कालमपि प्राणिमि जीवामि । हा हतास्मि | दैवेन ताडितास्मीति भावः । मन्दभागिनी | तदेव दर्शयति - कथमिति । न त्वं भवान् | जातः पतिरिति शेषः । अतश्च न न मर्यादा, न वा बन्धुवर्गो न स्वजनलोकः, न परलोको न प्रेत्यभावः । मां धिगस्तु धिक्कारोऽस्तु मां म् । दुष्कृतकारिणीं दुष्कर्मकरणशीलाम् | यस्याः पापकारिण्याः कृते तव भवत इयं परित्यक्तजीवितरूपा या वर्तते । मत्सदृशी मत्समा नृशंसहृदया क्रूरचित्ता नास्ति न विद्यते, याहमेवंविधं भवन्तमुत्सृज्य त्य- हं धाम गतवती । मे मम किं गृहेण सदनेन, किसम्बया मात्रा, किं वा तातेन पित्रा, किं वा बन्धुभिः - किं परिजनेन परिच्छदेन । हेति खेदे | कं शरणमुपयामि गच्छामि । हे दैव हे भाग्य, मयि विषये पा दर्शय । त्वां प्रति विज्ञापयामि विज्ञप्तिं करोमि । हे भवितव्यते भगवति, दयितदक्षिणां देहि । न्यां कुरु | अनाथां वनितां स्त्रियं पाहि रक्ष । हे भगवत्यो वनदेवताः, यूयं प्रसीदत प्रसन्ना भवत | निकुमारस्य प्राणान्प्रयच्छत ददत । हे सकललोकानुग्रहजननि वसुंधरे, अव रक्ष । हे रजनि हे रात्रि, पसे नानुकम्पां करोषि | हे तात कैलास, ते तव शरणागतास्मि । दयालुतां कृपालुतां दर्शय प्र इत्येतानि च ग्रन्थकर्त्रा प्रदर्शितान्यन्यानि चाप्रदर्शितानि च वचनानि व्याक्रोशन्ती पूत्कुर्वन्ती । ति । किन्मात्रं परिदेवनं स्मरामि स्मरणविषयीकुर्वे । ग्रहगृहीतेव प्रथिलेव, आविटेवावेशविषयी-