पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ कादम्बरी । । करवम्, किं व्यलपम्, इति सर्वमेव नाज्ञासिषम् । अवश्च मे तस्मिन्क्षणे किमतिकठिनत- यास्य मूढहृदयस्य, किमनेकदुःखसहस्रसहिष्णुतया हतशरीरकस्य, कि विहिततया दीर्घशो- कस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञात- घती । केवलमतिचिरालब्धचेतना दुःखभागिनी वह्नाविव पतितमसहाशोकदह्यमानमात्मान- भवनौ विचेष्टमानमपश्यम् । अश्रद्दधानं चासंभावनीयं तत्तस्य मेरणमात्मनश्च जीवितमुत्थाय, 'हा, किमिदमुपनतम्' इति मुक्तार्तनादा, 'है| अम्ब, हा तात, हा सख्यः' इति व्याहरन्ती ' हा नाथ जीवितनिāन्धन, आचक्ष्व | क मामेकाकिनीमशरणामकरुणं विमुच्य यासि । पृच्छ तरलिकां त्वत्कृते मया यानुभूतावस्था | युगसहस्रायमाणः कृच्छेण नीतो दिवसः | प्रसीद । सकृदप्यालप । दर्शय भक्तवत्सलताम् । ईपदपि विलोकय | पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि | अनाथास्मि | बालास्मि | अगतिकास्मि । दुःखितास्मि । अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कैथय किमपराद्धम्, किं वा नानुष्ठितं मया, कस्यां वा नाज्ञायामाहृतम्, कस्मिन्वा त्वदनुकूले नाभिरतम्, येन । , नाज्ञासिपं नाबोधिषम् । इतियोत्यमाह - उद्भूतेति । कामगममत्रजम्, किमकरवमघटयम्, किंव्यलप कि- सवोचम् । कीदृशाहम् | उद्भूतं प्रकटीभूतं मूर्च्छा एवान्धकारं यस्यां सा तथा पातालतलं रसातलमवतीर्णेव | असवश्चेति । तस्मिन्क्षणे मे समासवः प्राणा अस्य मूढहृदयस्य किमतिकठिनतयातिकाठिन्यतया | किं हतशरीरकरय निःप्रयोजनदेहस्यानेकानां दुःखसहस्राणां सहिष्णुतया सहनतया । किं दीर्घशोकस्य चिरका लीनशुचो विहिततयावश्यभोक्तव्यतया । किं जन्मान्तरोपात्तस्य भवार्जितस्य दुष्कृतस्य पापस्य भाजनतया पात्रतया । किं दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाने कृच्छ्रप्रदाने निपुणतया दक्षतया । किं दुरात्मनः पापि- ठस्य मन्मथहत कस्यैकान्तवामतयात्यन्तप्रतिकूलतया । एतेषां मध्ये केन हेतुना नोगच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती । केवलमतिचिराचिरकालेन लब्धा प्राप्ता चेतना चैतन्यं गया सैचंदिया दुःखभागिनी वहाविवानाविव पतितमसह्यो यः शोकः शुक्तेन दह्यमानं ज्वलन्तमवनौ पृथिव्यां विचेश मानं लुठमानमात्मानमपश्यमवलोक्यम् | तस्य मुनिकुमारस्य तन्मरणमात्मनश्च स्वकीयस्य च जीवितम संभ वनीयमश्रद्दधानमश्रद्धाविषयीकुर्वाणमुत्थाय । हेति खेदे | कीमिदमुपनतमागत मिति मुक्त आर्तनाद आनन्द आकन्दशब्दो यया सा तथा । हा अम्ब मातः, हा तात हा पितः, हा सख्य हा आल्यः इति पूर्वोक्तं व्याहरन्ती कथयन्ती । हा नाथ हा स्वामिन् जीवितनिबन्धनं जीवितकारणमाचक्ष्व कथय । मामेकाकिनी- मसहायामशरणामत्राणामकरुणं निर्दयं यथा स्यात्तथा विमुच्य व्यक्त्वा क यासि क्व जसि । तरलिकां पृच्छ प्रश्नं कुरु, त्वत्कृते त्वदर्थ मया महाश्वेताभिधानया यानिर्वचनीयावस्था दशानुभूतानुभवविषयी- ,