पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ कादम्बरी । तेन सुतरां विदीर्णहृदयेव किमप्यनिष्टमन्तःकथयतेव विषण्णेनान्तरात्मना 'तरलिके, किमि - दम्' इति सभयमभिदधाना वेपमानगात्रयष्टिरैभिमुखमतित्वरितमगच्छम् । अथ निशीथप्रभावाहूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् ' हा हतोस्मि । हा दग्धो- ऽस्मि । हा वश्चितोऽस्मि | हा किमिदमापतितम् । किं वृत्तम् । उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणि दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्र चाण्डाल, कृतार्थोऽसि । इदानी- मपगतदाक्षिण्यं दक्षिणानिलह्तक, पूर्णांस्ते मनोरथाः । कृतं यत्कर्तव्यम् । वहेदानीं यथे. टम् | हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् | हा धर्म, निष्परिग्रहो- ऽसि । हा तपः, निराश्रयमसि | हा सरस्वति, विधवासि | हा सत्य, अनाथमसि | हा सुर- लोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि भवन्तं विना क्षणमध्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य । ता स्थापिता शङ्कारेका गया सैवंविधाहं तदुपलक्षणानन्तरं तेन रुदितेव सुतराम तिशयेन विदीर्णहृदयेव विशीर्ण- स्वान्तेव किमप्यनिष्टमशुभमन्तर्मध्ये कथयतेव ब्रुवतेव विषण्णेन विषादवतान्तरात्मना सता हे तरलिके, सभयं यथा स्यात्तथा किमिदमित्यभिदधाना ब्रुवाणा वेपसाना गात्रयष्टिः शरीरयष्टिः सैवंविधातित्वरितम तिशी- प्रमभिमुखं संमुखमगच्छमब्रजम् । अथेति । आगमनानन्तरमित्येतान्यन्यानि वाक्यानि च विलपन्तं विलापं कुर्वन्तं कपिञ्जलमश्रौषमाक- र्ण तादृशविलापवाक्येनायं कपिजल एवेति निश्चितवती । इतिशब्दार्थमाह - निशीथेति । निशीथोऽर्वरात्रं तस्य प्रभावान्माहात्म्याहूरादेव विप्रकृष्टादेव विभाव्यमानो ज्ञायमानः स्वरो यस्य स तम् । दिवा कोलाहलेन शब्दः श्रोतुं न शक्यत इति भावः । पुनः कीदृशम् | उन्मुक्तेति | उन्मुक्त आर्तनादो येन स तम् । अथा- र्तस्वरान्विविच्य प्रदर्शयन्नाह - हा हत इति । हा इति खेदे | अहं हतस्ताडितोऽस्मि | हेति पूर्ववत् । दग्धो ज्वलितोऽस्मि | हा वञ्चितो विप्रतारितोऽस्मि | हेति | किमिदमतर्कितमापतितम् । मच्छिरसीति शेषः । किमिदं वृत्तं निष्पन्नम् | उत्सन्नो मूलात्कल्पितोऽस्मि । अहमिति शेपः | हे दुरात्मन् हे मदनपिशाच, हे पाप हे पापिन्, हे निर्घृण हे निर्दय, किमिदमकृत्यमनुष्टिनमाचरितम् । आः पापे दुष्कृतकारिणि, दुर्विनीते शुकले हे महाश्वेते, ते तवानेन पुण्डरीकेण किमपकृतम् | कोऽयमनुपकारः कृतः । आः आक्रोशे । हे पाप पाप्मन्, हे दुश्चरित दुराचार, हे चन्द्र चाण्डाल, त्वं कृतार्थः कृतकृत्योऽसि । इदानीं सांप्रतं हे अपगतदाक्षिण्य दूरीभू- तानुकूल्य, हे दक्षिणानिलहतक, ते तव मनोरथाः पूर्णाः परिपूर्णीभूताः । ह्तक इति हीनोक्तिः । यदिति । य स्कर्तव्यं तत्कृतम् । इदानीं सांप्रतं यथेष्टं यथेच्छया वह संचर | हा भगवन् हा स्वामिन् श्वेतकेतो, पुत्रवत्सल TATTI STIST ITAET I TI - A