पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३०३ LAC मानयेत्' इत्येवंवादिनीं च माभैसौ विहस्याब्रवीत् – 'भर्तृदारिके, मुग्धासि । किमस्य तेन जनेन । अयमात्मनैव तावन्मदनातुर इव भर्तृदारिकायास्तास्ताश्चेष्ठाः करोति । तथा हि । प्रतिबिम्बच्छलेन स्वेदसलिलकैणिकाञ्चितं चुम्वति कपोलयुगलम् । लावण्यवति पयोधरभारे निपतति प्रस्फुरितकरः । स्पृशति रशनामणीन् । निर्मलनखलप्रमूर्तिः पादयोः पतति । किं चास्य मदनातुरस्येव वपुस्तापाच्छुष्कचन्दनानुलेपपाण्डुतां वहति । मृणालवलयधवला- न्फरान्धत्ते । प्रतिमाव्याजेन स्फटिकमणिकुट्टिमेषु निपतति | केतकी गर्भकेसरधूलिधूसरपादः कुमुदसरांस्यवगाहते । सलिलसीकरा शशिमणीन्करैरामृशति । द्वेष्टि विघटितचक्रवाक- मिथुनानि कमलवनानि । एतैश्चान्यैश्च तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजोधूसरं चरणयुगलं कैलासतटाञ्चन्द्रोदयप्रस्रुतचन्द्रकान्तमणिप्रत्र- वणे क्षालयन्ती यस्मिन्प्रदेशे स आस्ते तस्मिन्नेव चास्य सरसः पश्चिमे तटे पुरुपस्येव रुदि- तध्वनिं विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का 4 । तम् । एवंवादिनीमेब्रुवाणां च मामसौ तरलिका विहस्य हास्यं कृत्वाब्रवीदवोचत् । हे भर्तृदारिके, त्वं मु ग्वासि । अस्य चन्द्रहतकस्य तेन जनेन पुण्डरीकाख्येन किम् | कृत्यमिति शेषः । अयं चन्द्रहृतक आत्मनैव स्वयमेव मदनातुर इव कंदर्पपीडित इव भर्तृदारिकाया भवत्यास्तास्ताचेष्टाः कायव्यापारान्करोति विदधाति । एतदेव दर्शयति — तथा हीति । प्रतीति । प्रतिबिम्बच्छलेन प्रतिच्छायामिषेण कपोलयुगलं चुम्बति चुम्बनं करोति । तदेव विशिष्टि - स्वेदेति । स्वेदसलिलस्य घर्मजलस्य कणिका विप्रुषस्ताभिरञ्चितं व्याप्तम् । एते- न कपोलयोः स्वच्छता विरहतप्तिश्च व्यज्यते । लावण्येति । लावण्यं लवणिमा विद्यते यस्मिन्नेवभूते पयो• धरभारे प्रस्फुरितः प्रकम्पितः करो येनैवंविधो निपतति । एतेन पयोधरयोर्जडत्वं परिणाहविशेषश्च द्योत्यते । स्पृशतीति । रशना कटिमेखला तस्या मणीरत्नानि स्पृशत्याश्लिषति | निर्मलेति । निर्मलाः स्वच्छा ये नखास्तत्र लग्ना मूर्तिर्यस्यैवंभूतः सन्पादयोः पतति । चन्द्रस्य कामुकत्वाभिव्यञ्जकत्वमाह - किं चेति । अस्य चन्द्रस्य मदनातुरस्येव वपुः शरीरं तापाच्छुष्को यश्चन्दनानुलेपस्तद्वत्पाण्डुतां शुभ्रतां वहति । मृणाले- ति । मृणालानि विसानि तेषां वलयानि तद्वद्धवलान्करान्हस्तान्धत्ते धारयति । प्रतिमेति । प्रतिमाव्याजेन प्रतिबिम्बच्छलेन स्फटिकमणीनां कुट्टिमानि तेषु निपतति । केतकीति | केतक्याः प्रसिद्धाया या गर्भकेस- रधूलिस्तद्वदूसरी पादौ यस्यैवंभूतः कुमुदसरांसि कैरवोपलक्षिततडागान्यवगाहते | सलिलेति | सलिलय जलस्य सीकरा वाताहतकणास्तरार्द्राञ्शशिमणींश्चन्द्रकान्तान्करैर्हस्तैर्मृशति परामुशति | विघटितेति । विध- टितानि भिन्नीभूतानि चक्रवाक मिथुनानि येभ्य एतादृशानि कमलवनानि द्वेष्टि द्वेषं करोति । तयेति । तथा तरलिकया सहैतैः पूर्वोक्तैरन्यैश्चैतद्भिन्नैस्तत्कालोचितैस्तत्समययोग्यैरालापैः संभाषणैः करणभूतैस्तमुद्देशं पूर्वो a