पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ कादम्बरी । श्रवणशिखरचुम्चिन्या च पारिजातमञ्जर्या पद्मरागरत्नरश्मिविनिर्मितेनेव रक्तांशुकेन कृत- शिरोवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम् | अवतीर्य च पारिजातकुसुममञ्जरीपरिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुवनान्यपहाय धावता मधुकरजालेन नीलपटावगुण्ठनविभ्रममिव संपादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गय तत्समीपमुदचलम् । प्रयान्ती च तरलिकाद्वितीयपरिजनमात्मानमवलोक्याचिन्तयम् - 'प्रियतमाभिसरणप्रवृत्तस्य जनस्य किमिव कृत्यं वाह्येन परिजनेन । नन्वेत एव परिजनली- लामुपदर्शयन्ति । तथा हि । समारोपितशरासनासक्तसायकोऽनुसरति कुसुमायुवः । दूँ- प्रसारितकर: करमिव कर्षति शशी । प्रस्खलनभयात्पदे पदेऽवलम्बते रागः । लजां पृष्टतः कृत्वा पुरः सहेन्द्रियैर्धावति हृदयम् । निश्चयमारोप्य नयत्युत्कण्ठा' इति । प्रकाशं चाव- दम् – 'अयि तरलिके, अपि नाम मामिवाँयमिन्दुहतकस्तमपि किरणकचग्रहाकृष्टमभिमुख- 3 S स्थापितयाक्षमालया जपमालया तथा पारिजातमञ्जर्या च । कीदृशया | श्रवणयोः कर्णयोः शिखरमञं चुम्बती- त्येवंशीला सा तया । एतेन विरहव्याकुलतया नवीनं किंचिन्न कृतमिति सूचितम् । पुनः कीदृशी | रक्तेति । रक्तांशुकेन लोहितवस्त्रेण कृतं शिरोवगुण्ठनं यथा सा | रक्तत्वसाम्यादाह -- पद्मेति । पद्मरागो लोहितको रत्नं तस्य रश्मिभिः कान्तिभिर्विनिर्मितेनेव रचितेनेव | केनेति | केनचिदात्मीयेनापि स्वकीयेनापि परिजनेन परिच्छदेनानुपलक्ष्यमाणाज्ञायमाना | प्रकारान्तरेण तामेव विशेषयन्नाह - मध्विति | मधुकरा भ्रमरास्तेषां जालेन समूहेनानुबध्यमाना निरुध्यमाना | अथ मधुकरसमूहं वर्णयन्नाह - पारीति । पारिजातस्य मन्दारस्य या कुसुममञ्जरी तस्याः परिमलस्तेनाकृष्टेनाकर्षितेन । अतएव रिक्तीकृतोपवनेन । सर्वस्य मधुकरस्य तत्रैव ग मनादुपवनं रिक्तीभूतमिति भावः । किं कुर्वता मधुकरकुलेन । कुमुदवनानि कैरवखण्डान्यपहाय त्यक्त्वा धा. वता त्वरया गच्छता | पुनः किं कुर्वता | नीलेति । नीलपटः कृष्णांशुकं तस्यावगुण्ठन विभ्रममिव शिरोवेष्टन- विलासमिव संपादयता निष्पादयता | अन्वयस्तु प्रागेवोक्तः । प्रयान्तीति । प्रयान्ती गच्छन्ती । तर इति । तरलिकैव द्वितीयः परिजनो यस्यैवंभूतमात्मानमवलोक्य निरीक्ष्याहं महाश्वेताचिन्तयमध्यायम्। किं तदित्याह- प्रियेति । अतिशयेन प्रियः प्रियतमरतस्याभिसरणमनुगमनं तत्र प्रवृत्तस्यायुक्तस्य जनस्य वाह्येन बहिर्भूतेन परिजनेन किमिव कृत्यम् । न किमपीत्यर्थः । प्रस्तुतस्य कुमारेण सह संगमरूपस्य कार्यस्य स्वनिकटवर्तिप रिचारिका स्वप्यन्तरङ्गत्वात्तरलिकायास्ततोऽपि संगोप्यमानत्वादिति भावः । परिजनराहित्येsपि तद्युक्ततां प्रदर्शयन्नाह - नन्विति । ननु निश्चयेन | एते एवाग्रे वक्ष्यमाणा परिजनलीलामुपदर्शयन्ति । तत्कृत्यतां प्रकटी- कुर्वन्तीत्यर्थः । तदेव प्रकटयन्नाह तथा हीति | समारोपितमधिज्यीकृतं यच्छरासनं धनुस्तत्रासक्त आयुक्तः सायको वाणो येनैवंभूतः कुसुमायुधो मदनोऽनुसरत्यनुगच्छति । उद्दीपकत्वात् । दूरं प्रसारिता विस्तारिताः Earaaee area sea भ -j.