सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19 9 । रयन्, अन्तरायानन्तरयन, सर्वसंदेहानपनयन्, सर्वशङ्कास्तिरस्कुर्वन् लज्जामुन्मूलयन्, स्वयमभिगमनलाघवदोषामवृण्वन्, कालातिपातं परिहरन् आगत एव मृत्योस्तस्यैव वा सकाशं नेता कुमुदबान्धवः । तदुत्तिष्ठ | यथाकथंचिंदनुगमनेन जीविता संभावयामि हृदय- दयितमायासकारिणं जनम्' इत्यभिधाना मदनमूच्र्छाखे दैविह्वलैरङ्गैः कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजात- शङ्का चाचिन्तयम् – 'इदमपरं किमप्युपक्षिप्तं दैवेन' इति ।

  1. dage (

अथ नातिदूरोद्गतेन त्रिभुवनप्रासादमहाप्रणालानुकारिणा सुधासलिलपूर्वानिव बहुता चन्दनरस निर्झर निकरानिव क्षरतामृतसागर पूरानिवोद्गिरता श्वेतगङ्गाप्रवाहसहस्राणीव वमता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोकदर्शनसुख- मिवानुभवति जने, महावराहदंष्ट्रामण्डल निभेन शशिना क्षीरसागरोदरादिवोद्रियमाणे मही- सममा ये उपायाश्चन्दनवासप्रक्षेपादयस्तेषां दर्शनानि विलोकनान्युत्सारयन्दूरीकुर्वन् । अन्तरायेति । अन्त राया अयं मुनिकुमारोऽहं च राजकुलोत्पन्नेत्युभयोर्विलक्षण कुलशीलस्वभावलोकगर्हारूपास्तानन्तरयन्व्यवधानं कुर्वन् । सर्वति । एतदनुसरणे किंचिदनिष्टं स्यादित्येवंरूपाः सर्वे ये संदेहा द्वापरास्तानपनयन्दूरीकुर्वन् । सर्वेति । सर्वाश्च ताः शङ्का मातृपितृवर्गात्समुद्भूता आरेकास्तास्तिरस्कुर्वन्यकुर्वन् | लजेति । लज्जां त्रपा- मुन्मूलयनुच्छिन्दन् | स्वयमिति । स्वयमात्मनाभिगमने तदनुसरणे लाघवदोषं लघुतादूषणमावृण्वन्नाच्छा- दयन् | कालेति । कालस्य समयस्यातिपातमविलम्बं परिहरन्परित्यजन् । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुरु । अतित्वरयेति शेपः । एतेनानुसरण आदरातिशयः सूचितः । अनुगमनेन यथाकथंचिद्यदि जीविता श्व- सिता तदा यन्निमित्तमायासोऽनुभूयते तमायासकारिणं हृदयदयितं जनं संभावयामि । अनुसरणफलीभूतेन सह संगमरूपेण समाधानं करिष्यामीत्याशयः । इत्यभिदधातिब्रुवाणा | मनेति । मदनमूर्च्छया जनितो यः स्वेद- स्तेन विह्वलैर्व्याकुलैरङ्गैर्हस्तपादादिभिः कथंचिन्महता कटेन तामेव तरलिकामवलम्ब्यालम्बनीकृत्योद तिष्टमु- स्थितवती । उच्चेति । उच्चलिताया उत्प्राबल्येन प्रस्थिताया मे मम दुर्निमित्तं कुमारस्य विगतजीवितत्वादिकं तस्य निवेदकं ज्ञापकं दक्षिणं सव्येतरं लोचनं नयनमस्पन्दतास्फुरत् | उपेति । उपजाता समुत्पन्ना शङ्का निष्टोत्प्रेक्षणं यस्या एवंविधा चाहमित्यचिन्तयमित्यध्यायम् । इतिप्रतिपाद्यमाह - इदमिति | दैवेन विधिना- परमिदं किमुपक्षिप्तं निक्षिप्तम् । अथेति । दुर्निमित्तोपागमानन्तरं प्रदोषसमय एव यामिनीमुख एव तस्मात्प्रासादशिखरात्पूर्वोत्तसौध- प्रान्तादवातरमुत्तीर्णा | उत्तीर्य च प्रमदवनपक्षद्वारेण पक्षकेण निर्गय निर्गमनं कृत्वाहं महाश्वेता एवं तत्समीप पुण्डरीकाभ्यर्णमुदचलमुद्गच्छमिति दूरेणान्वयः | कस्मिन्सति | चन्द्रमण्डलेन शशिबिम्वेन ज्योत्स्नया कौमुद्या भुवनान्तराले विष्टपविशाले लाव्यमाने पूर्यमाणे सतीत्यर्थः । कीदृशेन चन्द्रमण्डलेन | नातिदूरोद्गतेनाति- विप्रकृष्टोदितेन । अत्र च ज्योत्स्नायाः श्वेतत्वसंतोषजनकत्वस्वभावतया सुवासाम्येन तां वर्णयितुं चन्द्रमण्डल- विशेषणमाह -- सुधेति । सुधा पीयूषम् तृषोपशामकत्वात् । तदेव सलिलं तस्य लवाः पूरास्तानिब वहता दुधता । सलिलं गेहप्रणालेन गच्छतीत्याशयेनाह - त्रिभुवनेति । त्रिभुवनमेव प्रासादो देवगृहं तत्र महा-